________________
भवता कथं क्रियते ? हे पक्षिराज ! मवदादेशेन मया वीरमतीपार्श्वेऽन्यं पुरस्कारमयाचित्वा भवन्मार्गणमेवोरीचक्रे, भवता चाप्यद्ययावदस्मासु दृढस्नेहो रक्षितः, परमद्याकस्माद् भवान् कुतोऽस्माभिः पृथग् युभूपुरसि? भवति गते मम सेवायाः प्रत्युपकारफलदायी का स्यात् ? किं भवान कस्यचिद्वश्वकस्य वचने समायातोऽस्ति ? अन्यथा पुनरीदृशो निःस्पृहः कथं भवेत् ? यधेयमेव कर्तव्यमासीत्तदा पूर्वमेतावानस्मा स्नेहः कथं दर्शितः ? शिवमालाया दुःखपूर्णमदः कथनं निशम्य कुक्कुटराजेन स्वगिरोक्ता सा-शिवमाले ! त्वमेवं कथं कथयसि ? नाहमनः किन्तु सर्व जानामि, सतां वियोगः प्रतिक्षणं शूलबद् हृदयं दुनोति ।।
यतः-अत एव हि नेच्छन्ति, साधकः सत्समागमम् । यद्वियोगासिलूनस्य, मनसो नास्ति भेषजम् ॥ १९ ।। .... पर तेषां हार्दन्तु जात्वणि न मुच्यते, पुनम्ना स्नेहस्तु तस्मादसाधारणप्रेम्णोऽप्यधिकोऽस्ति ! अत्र त्वत्स्नेहे तूपकारस्याप्पंशो बतेरो, अतोऽमुं स्नेहन्त्वहं कथमपि न बिस्मर्तुं शक्नोमि। यतः-उपकारः कृतोऽल्पोऽपि, सतां याति न विस्मृतिम् । करम्बभोजनं वध्वाः, कुमारनृपतेरिव ॥ २० ॥ ___ त्वया मयि या योपकृतिः कृता सा मम सम्यक् स्मृतिरिति तव स्वाऽऽस्येन निजवर्णनस्य प्रयोजनं नास्ति । पुनर्नवाब्दिकस्नेहस्य परित्यागोऽतिदुष्करो वर्तते, तब संगो मे भाग्येन जाता, एवंभूतसंगस्य परित्यागो मूर्खेगवेष्यते, परं हे नटपुत्रि ! एतत्सर्व
यहमेतत्कृत्यं कर्तुं कथमुद्यतोऽस्मि, तस्य मुख्यकारण ते ज्ञापने काप्यापत्तिने विद्यते | शृणु-अत्रत्यराजकुमार्याः प्रेम-8 लाया: परिणयो मया सहैवानि, अस्यैवोद्वाहस्य कारणेन मे विमात्रा रुष्टभूतयाऽई खगो विहितः । सम्प्रत्यस्य वृत्तस्य स्मृतिमात्रेणैव मे हृदयं विदीर्यते, परं देवेन दर्त सुखं दुःखं वा सोढव्यमेव भवति निखिलचराचरैर्जगति । यत: