SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ प्रेषयत् । तस्मिनागत एव नटेशेनाऽपि मन्त्रिपुत्रो मन्त्रिनिकेतने प्रेषितः, तदनन्तरं तत्र कार्याभावात्क्षिप्रमेव ते नास्ततः प्रचेलिर्वासः । अतः परं ते नित्यं नवं नवं नगरमेत्य तत्र च राजपरिकरस्य स्व खेलनं दर्शयित्वा चन्द्रराजस्य सत्संगाद् विपुलं पुरस्कारं प्राप्तुं लग्नाः । यतः - किं वापरेण बहुना परिजल्पितेन सत्संग एवं महतां महते फलाय | अम्भोनिधेस्तदरुहास्तरवोऽपि येन, बेलाजलो च्छलितरत्नकृत लिवालाः ॥ ३ ॥ बहुषु स्थानेषु कुक्कुटराजते तेषां युद्धम कर्तव्यमभवत परं साधारणतो जनेभ्यस्तनाट्यमत्यरोचत अतस्ते नटा यत्र २ तास्तत्रैव तेषां धनस्य कीर्तेश्च प्राप्तिरभूत् । इत्थं वंभ्रमन् स नटवगों दिमलापुरीं प्रत्यायातः, यत्र च स्थाने वीरमत्या स सहकारवृक्षः स्थापित आसीत्तत्रैव स्थाने नटैर्दृग्याद्यः स्वावाम आरोपितः । कुक्कुटराजेन दृष्टमात्र एव तत्स्थानमुपलक्षितं, प्रेमलालच्छ्या सत्रा विवश वा परिणय करणं, तया सार्द्धमपूर्व वार्तालापभवनं, पुनस्त्वरितमेव तस्या वियोगादिघटनाश्चिश्वत्तस्य समक्षोपस्थिता भवितुं लग्नाः । यतः - तदेवास्य परं मित्रं यत्र संक्रामति द्वयम् । दृष्टे सुखं दुःखं च प्रतिच्छायेव दर्पणे ॥ ४ ॥ येन स्वस्वान्ते वक्तुमारेमे --- सैवेयं नगरी, यत्रागमनकारणेन मम कुक्कुटभवनं जातम्, सम्प्रत्यई बंभ्रमन्पुनरागतोऽस्मि, अतोऽचैत्र मे दुःखस्यात्रसानं भावीति संभाव्यते । कुत्रामापुरी क च विमलापुरी १ तदाभापुरीत एतावदरमागमनं सुलभं नाssसीद, परं संसारेऽस्मिन् प्राणिनि जीविते सति किमप्यसंभवं नाऽस्ति ।
SR No.090467
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1998
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari, Biography, & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy