SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ RRC करिष्यामि, एकदिनकृतेन किमपिव्येतीति विधारयन् सोऽपि तस्थौ । ततस्तृतीयेऽपि घने सैवाऽवस्था जाता यापूर्वदिनेऽभूत्। अस्य IS मन्त्रिप्रणश्यवानमिहाया लशावर अदि विश्वमानस्य तीवाऽभिलाषायां सत्यामपि स सुमुहतापेक्षया पुनरपि स्थगितोऽ भूत् । इतो लीलावती तं स्वस्नेहाऽऽनाये पातयितुमुरुचेष्टां कुर्वाणाऽऽसीदन्यत्र मन्त्रिणो घनदेभ्यस्य च प्रबोधनं प्रवर्तमानमासीत् । प्रान्तेऽस्योद्योगस्येदं फलं जातम्, यदेकैकेन दिनेन षण्मास्यपि व्यतीता परं लीलाधरो विदेशं न जग्मिवान् । सचिवादयो जानन्त आसन्, यदयमित्थं निवार्य रक्षणेन कदाचित्सर्वथा स विदेशगमनविचारं त्यक्ष्यति परन्तथा नाऽभूत् । स्वसंगरे निचलेन लीलाघरेण मनसि विचार्य रक्षितं, यद्यदा कुक्कुटरवः श्रोष्यते, तदाऽहमवश्यं परदेशं यास्पामि । यदापोतनपुरे मन्त्रिणो गृहेऽयं प्रपश्चः प्रवर्तमान भासीत्तदैव तमगरे शिवकुमारस्य नटमंडली समागता । तदा चन्द्रनृपस्य यशोगानं कुर्वन्तश्च वाधानि वादयन्तो नटा उपराज है मता, स्वनियामाय स्थानमयाचन्त राज्ञायि सचिवसबसभिधावेवैकं स्थानं दर्शितं तत्रैव तेनिजवनवेश्म स्थापितम् । परं सैन्या | तत्र स्थानाभावात्पुरो बहिस्तडागवटे तदुत्तारकः कृतः । पश्चात्सायं कुक्कुटराजेनाऽनुज्ञातः परिमितपरिकरः शिवकुमारो राजपरिषदि गतः सदस्यांश्च निजगायनं श्रावयित्वा प्रसादयितुं प्रावर्तत । कुतोऽखिलप्राणिनां मधुररागोसी प्रियंकरोऽस्ति ।। तदुक्तश्च-पशुमानवदेवाश्चा-नुरज्यन्ते सुरागके । तथैवामी विशेषेण, मृगस्त्रीसर्पभूभुजः ॥ ९१ ।। राज्ञोचे-अघ परिश्रान्ता यूयं विश्राम विदधीध्वं, श्वो मां नाट्यं द्रष्टास्मः, एतभिशम्य ते निजोतारकं समायाताः । हदेव केनचित्तत्साधै कुरटं विलोक्योक्तम्-युष्माकं संस्मर्तव्योऽयं वृत्तान्तो यदत्राय ताम्रचूडो वक्तुं न पारयेत्, यद्ययं शब्दायिष्यते, तदा शब्दे थुत एव मन्त्रिणो जामाता विदेशं व्रजिष्यति, तस्य च सों दोषो युष्मास्वेव पतिष्यति, असादेव कारणाम ।
SR No.090467
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1998
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari, Biography, & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy