________________
:
=
तेगाऽभिहितम्-तात ! न मे केनाऽपि किश्चिदुःख दत्तमस्ति, परं द्रविणोपार्जनाथ विधेशं गन्तुकामो भवदादेशं कामये ।।
यदुक्तम्-यो न निर्गत्य निःशेषा-मालोकयत्ति मेदिनीम् । अनेकाश्चर्यसम्पूर्णी, स नरः कूपदरः ।। ८६ ॥ ____अत इयमेवैका ममामिलाषा वर्तते । पुत्रोक्तमिदमाकप श्रेष्ठो चकितो जातस्तद्गेहे धनस्य त्रुटि ऽमीचधापि तस्य प्रियपुत्रस्तदर्थ परदेशगमनाभिलाषुकोऽभूत, तस्मात्तेन वबोधनपूर्वकमुक्तम्-सुपुत्र ! तब वयः साम्प्रतं बह्वल्पमस्ति, सतस्ते विवेशगमनं सम्प्रत्यसाम्प्रतं, पुनरपि तव परिणयकालोऽपि अल्प एव जातोऽस्ति स्वसदने धनधान्यस्याऽभावोऽपि न वर्तते, अस्यां दशायां ते विदेशगमस्याऽऽवश्यकता कापि नास्ति । पितुरिदं वचो निशम्य लीलाधरेण तम्य भिक्षोर्वार्तामाख्याय जन प्रत्यूचे-मन्मा-3 नसेऽस्या वार्तायाः सुदृढः प्रभारः पतितोऽस्ति, अतोऽहं सकृदपि परदेशमवश्यं यास्यामि । पुत्रोदेगस्यादो यथार्थकारण विज्ञाय र श्रेष्ठिना भृशं प्रबोधितम्, भिक्षुका प्रभावापनोदाय च बहु पेष्टितम्, परमवकेशिवृक्षवत्सर्योऽपि यत्नो विफलो जातः । इत्य लीलाधरस्य मात्रा, तथा सचिवादिप्रमुखैरन्यैरपि लोको प्रबोधितोऽपि धीरो लीलाधरः स्वसंकल्याकिचिदपि न विचेलिवान् ।
यता-अर्थः सुखं कीर्तिरपीह माभू-दनर्थ एवास्तु तथापि धीराः ।
निजप्रतिज्ञामधिरूढमाना, महोबमाः कर्म समारभन्ते ॥ ८७॥ तस्य विदेशगमनोत्कंठा तथा प्रवर्षिता यथा स पितुर्विदेशगमननिदेशावाप्ति विनाऽमजलग्रहणमपि नैच्छत्, परं कथंचिच्छेष्टिनोस्थाप्य तेन सुतेन सह खादितम् । द्वितीये दिने गमनस्य निश्रयं कृत्वा तं शयनागारे संवेशाय प्रेषयत् । स यावच्छपनागारमेत्य