________________
कियकालानन्तरं कशाधिनां मंडली तत्र समागता, अतिविशाल सुपर्वपुरनिभं पोतनपुरे विलोक्य साक्षादिन्दिरावास इवामन्यत । सत्र जयसिंहाख्यो भजाती नाल्य फरोसितम्य सुचिमाना सविध आसीत्तस्यातिरूपपती मञ्जूषाख्या प्रिया, रूपगुणसंपमा लीलावत्यभिधाना कन्या चाऽऽसीत् । तस्यास्तनगरवास्तव्येन लीलाधरनामवणिकपुत्रेण सह पाणिपीडनं कारितम् ।। तद्वन्द्वं परस्परमुपयुक्तं विलोक्य विषात्रा मणिकाश्चनयोर्योगः कुतोऽस्तीति लोका उक्तवन्त आसन् । एतयुग्मं परिणयानन्तरं दोगुन्दु- ६ कदेववदथवा माररतिवद् विषयसुखमोगं कुर्वाग स्वसमयं गमयामास । अन्यदा पुण्यहीनः कश्चित्परिबाड् लीलाधरनिकटे याचनार्थ-8 मायातः, परं लीलाघरेण ते तिरस्कृत्य स पहिनिष्कासितः। ततः क्रोधाऽऽध्मातेन तेन परिव्राजा सकोपाटोपं लीलाधरं प्रत्युक्तम्हे श्रेष्ठिन् ! भवतेवमभिमानो मा क्रियतामहं यथातथाऽस्मि, परं भवतस्तु कस्मिंश्चिदशे श्रेयानेवाऽस्मि । यतोऽहं स्वशयोपार्जितं मुजे, त्वन्तु स्वजनकोपार्जितधने जीवितं गमयसि । अहं त्वद्वदन्योपकृत्याऽभारितो नास्मि, यो निजभुजाभ्यां धनोपार्जनं न कुरुते तब्बीवनं घिक | परद्रव्यावलम्बनेनोच्छलनकुर्दनं न बरं, यावत्तव जनयिता जीवन् विद्यते तापनिश्चिन्तोऽसि, तदभावे न जाने का ते दशा भविष्यति ? तदवस्थायामयं यौवनधनमदः कस्मिापि कार्ये नोपयोगमायास्यति । अध ममेमां दां विलोक्य स्मयमानोऽसि, परं संभाव्यते, यत् श्वो भवदीयाऽपि दशेस्थमेव स्यात, जना भवन्तं दर्श दर्भ हसेयुः । अतो जगति मृर्श विचार्य वर्तितव्यं, स्वप्नेऽपि च गत्वरायुविनधनाभिमानो न कार्यः।
यता-संपदो जलतरङ्गविलोला, यौवनं त्रिचतुराणि दिनानि ।
शारदाभ्रमिष पञ्चलमायुः, किं धनैः ? कुरुत धर्ममनिन्धम् ।। ८३ ॥