SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ॥ वीज्यमानावास्ताम् । कुक्कुटराजस्य मुं समारोह निर्वर्ण्य निरीक्षकाच किताः सन्तस्तस्य भाग्यलानां कुर्वन्ति स्म । यत्रैते क्रीडां दर्शयन्ति स तत्र पूर्वतश्चतुर्गुणो लाभो भवनं मः । तेनेपानी पीता ही मोत्साहेन चतुर्दिक्षु श्रामं आमं जनानां मनोरञ्जनाय स्वखेलनं दर्शयामास ॥ अथ श्रीचन्द्रराजसंस्कृत चरित्र स्थाऽष्टादशपरिच्छेदे लीलाधर लीलावत्योर्वृतान्त: शिवमाला 'चन्द्रराजस्य पिञ्जरं लब्ध्वा देशविदेशेषु भ्रमणं विदघती विपुलघनोपार्जनं कर्तु लग्ना । तस्यास्ताम्रचूडप्राप्त्यैकः पन्था द्वे कार्ये, इति लोकोक्तिश्चरितार्थ जाता । शिरमाला तेन प्रत्यहं सुखमक्षिकां मिटामश्च खादयन्ती स्वप्राणवतं श्रायमा णाऽसीत् । अन्यदेयं नटमंडली भ्राम्यन्ती बंगदेशीये पृथ्वीभूषणाभिधे नगरे गता । तथाऽरिमर्दनाख्यो भूपो राज्यं करोति स्म, तस्य चन्द्रराज पित्रा साकं परा प्रीतिर्वर्तते स्म । नटैस्तत्र नगरे शोभनं स्थानं निरूप्य तत्र स्वावासः स्थापितः । एकस्मिन् गृहे सिंहासनं सज्जयित्वा तदुपरि कुक्कुटराजस्य पिंजरं स्थापितम् । नाना मेरा दृशेन समारोहेण स्थापितमावासं विलोक्य कचिद्राज्ञो निकाय्यो यथा भवेत्तथा दर्शकैरज्ञायि । राशोऽरिमर्दन‍ ट्रेनस्य नटाऽऽगमनवृत्ते विदित एव तेन खेलादर्शनाय नटा आकारिताः । तदा सपिञ्जराः शिवकुमारादयोऽपि राजपरिषद्युपस्थिताः, कुक्कुट प्रणम्य तदाज्ञामादाय दिव्यं नाटकं दर्शयामासुः । नाटकं दृष्ट्वा तुष्टेन राज्ञा तेभ्यः प्रचुरं दानं दत्तम् । तैः साकममुं कुक्कुटं निर्वर्ण्य तदद्भुत सौन्दर्यावलोकनतो विस्मेरमानसेन राज्ञा पृष्टेन शिवकुमारेण तस्य तथ्यष्टत्तान्तः संक्षेपेण कथितः । तदाकर्ण्य राज्ञोऽरिमर्दनस्य यदाऽयं राजा चन्द्र एषाऽस्तीति विदितमभूत्तदा स
SR No.090467
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1998
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari, Biography, & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy