________________
जातः । सन्नेत्राभ्यां गंगाकालिन्धोर्धारा इव बाष्पासारा निर्गन्तुं लग्नाः । यथा यथा तस्याः स्वपतेः स्मरणमागतं तथा तथा तद्दुःखमपि प्रवर्धमानमासीत् । सा दीर्घश्वासं ग्राई ग्राहं तस्यामेव दिशायां दत्तदृष्टिरासीत्, यस्यां दिशि तत्प्रिषपिञ्जरं गृहीत्वा नटसमूहो गतोऽभवत् । तद्दिशातो मरुवेगस्तथाऽऽयातो येन सा ध्यातु लग्ना - यदयमवश्यं मे पत्युः स्पर्श कृत्वात्रागतो भवेत्, अतः सा तत्स्पर्शेनातीत्र मुमुदे । सा स्वप्राणप्रियमास्मृत्य वक्तुं प्राररूषा- अये ! प्राणाः । यूयं सम्प्रति प्राणेशमन्तरा कथं स्वास्थ्य ? रामनन्तु युष्माकं धर्ममेव विद्यते । यदा प्राणाधारो गतस्तदा युष्माकमप्यत्र स्थितिनचिता ।
यतः - प्रस्थानं वलयैः कृतं प्रियसखैरखैरजस्रं गतं, धृत्या न क्षणभासितं व्यवसितं चित्तेन गन्तुं पुरः । यान्तुं निश्चितचेतसि प्रियतमे सर्वैः समं प्रस्थितं, गन्तव्ये सति जीवन ! प्रियसुहृत्सार्थः किमुत्सृज्यते १ ॥७४॥
किञ्चित्कालाऽनन्तरं पुनः सा तं ध्यायन्ती वक्तुमारभत -- कुत्र गतवान् मे स्वामी, कुत्र यातास्ते नवनवरसानन्दाः क षोडशशृंगारास्ते १, कुत्र च तदपूर्व स्नेहो गतः १ अहो ! यथैन्द्रजालिका विविधाद्यमायां विस्तार्य तां पुनः संहरन्ति तथैवैताः सर्वा वार्ता अपि मधुर स्मृतिरूपं परित्यज्य न जाने कुत्र प्रयाताः । हे नाथ ! भवद्गमनाद् मेऽतितरां व्यथा जायते, परं परमेश्वरं प्रति संप्रतीयमेवाना विद्यते यद्यत्र भवन्तः तिष्ठेयुस्तत्रैव सुखिनो दीर्घायुषो भूयासुर्भवद्यशोवृद्धिश्व भूयादियमेव ममाऽभिलापा बोभूयते । हे नाथ ! जीवनाधार ! सहेषे दास्यपि स्मरणीया न तु विस्मरणीया किमधिकं ब्रूयाम् १ ।
यतः - दन्दु कैरविणीव कोकपटलीवाम्भोजिनीबान्धवं मेघं चातकमण्डलीव मधुपश्रेणीय पुष्पाकरम् । माकन्दं पिकसुन्दरीव तरुणी प्राणेश्वरं प्रोषितं चेतोवृत्तिरियं मम प्रियसखे । स्वां द्रष्टुमुत्कण्ठते ॥ ७५ ॥