________________
पिञ्जरं शिवमाला स्वमस्तकोपरि वहति । स यावद् दृग्गोचरेऽवर्तस, सावद् गुणावली निर्निमेषेण तमवलोकयामास । अतिक्रान्तनेत्रपथे यस्मिन् विटपाऽवरोधेन च तद्दर्शनाभावे गुणावली ततोऽधः समागता । तदानीं तस्याः परमार्थतः सैव दशाऽऽसीद्या मणौ हृते मनस्य वा पयसा बहिष्कृतस्य मीनस्य भवति । सैतस्य दुःखस्याऽवेगमसहमानाऽवनों मूच्छिताऽपतत्। तदीयामिमामवस्थामवलोक्य वयस्पा धावन्त्यः समाययुः शीतोपचारैथ कथञ्चित्तां सज्जीचक्रुः । अनया घटनया परितो हाहाकारो जात चैतद्वचं ज्ञात्वा तत्र सचिवोऽप्याययौ, तेन बहुधा तस्यै सान्त्वना दत्ता । यतः
विपदि परेषां सन्तः समधिकतरमेव दधति सौजन्यम् । ग्रीष्मे भवन्ति तरवो, घनकोमलपल्लवच्छन्नाः||७२|| अथ वीरमत्यपि तत्राऽऽयाता, परं तस्यास्तु सार्धतण्डुलस्य कुशरं पृथगेव पच्यते । गुणावल्याः शान्तिदानं तथा तद्दुःखकारणपृच्छा तु दूर एवाऽतिद्युत्प्रत्युत विरुद्धमेव तयोक्तम्-वधु ! चन्द्रस्य गमनेनाऽद्य मे परमानन्दोऽमवत्सम्प्रत्यस्माकं स्नेहे कथमपि बाधा न पतिष्यति, ततोऽप्युतरोसरं वर्धिष्यत इति मे मनोधाररणाऽस्ति । वीरमत्या अदो वचो गुणावल्यै परमाप्रियमलगत्पुनरपि स्वसमयं विचार्य तस्यास्तद्वचोऽनुमोदनं कर्त्तव्यमेवाभूत् ।
1
यतः - पदपसरति मेषः कारणं तत्मतु, मृगपतिरपि कोपात्संकुचत्युत्पतिष्णुः |
हृदयनिहितचैरा गूढमन्त्रप्रचाराः, किमपि विगणयन्तो बुद्धिमन्तः सहन्ते ॥ ७३ ॥ तेन मुदिता सा वीरमती प्रसन्नतया स्वावासं परावृत्यागता । इतो गरेषु सर्वजनेषु गुणावल्याचेतसि पुनर्दुःखाग्निरुन्मर्यादो