________________
यतः- नित्यं ब्रह्म यथा स्मरन्ति मुनयो हंसा यथा मानसं यद्वच स्फुटसल्लकीवनयुतां ध्यायन्ति रेवां गजाः । तद्वद्दर्शनलालसाः प्रतिदिनं युष्मान्स्मरामो वयं, धन्यः कोऽपि स वासरोष्य भविता यत्राऽऽवयोः संगमः॥६५॥
स्वामिन्! मना स्वीयामिमामभागिनीं पत्नी मभिपश्यतु, ममान्तःकरणं भवद्विरहानलेन भस्मीभवति । मुसलधारासम्यावेऽप्यस्य ज्वलनस्य शान्तिकरी शक्तिर्न विद्यते । प्राणाधार ! दैवेनाति क्रूरेण 155 योरुपरि महान् दुःखाद्रिः पातितः परं तस्यामप्यवस्थायामहं भवद्दर्शनं कृत्वा स्वां धन्यां ज्ञातवत्यासम् । परं दैवेनाऽधुनेयदपि सखं दृष्टुं नाह । यदि हृदयं विदार्य दर्शयितव्यं भवेत्तदा भवन्तं स्वदुःखं दर्शयेयम् । अरावप्येतद्दुःखं न परोदिति मे सर्वदेच्छा विद्यते । नाथ ! भवदीया वार्ता सदैव मे स्मृतिपथमागमिष्यति भवता शीघ्रमेव कृपया परावर्तितव्यं भवानेव मम जीवनमस्ति । ममेमे सासुनेत्रे मततं भावत्कं मार्ग पश्यन्ती स्थास्यतः । भवन्तं नटः प्रतिगृहं भ्रामयिष्यत्यस्य वृत्तस्य मे महत्कष्टं वरीवृत्यते । परमत्र रक्षणे भवत्प्राणसम्बन्धि महत् मयमासीत्, अतोः हे प्राणाधार ! विवशीभूयाऽयाऽहं भवन्तं स्वतः पृथक् कुर्वत्यस्मि । तस्या एतद्वचो निशम्य राज्ञचन्द्रस्य चक्षुषी सासुणी संजज्ञाते । तस्मिन् मानववद्वक्तुं वचनशक्तिर्नाऽऽसीत्, कुक्कुटवचश्च गुणावली समवगन्तुमशक्तेति तेन पादनखेनावनो लिखित्वा सा प्रतिबोधिताप्रिये ! स्वया मे चिन्ता न कार्या । जीवति मयि आवयोः कदाचिदपि संगमोऽवश्यं भावी, दूरस्थेऽपि मयि दवाई समीपस्थ एवेति त्वया ज्ञातव्यः ।
यतः - दूरस्थोऽपि न दूरस्थो, यो वै मनसि वर्त्तते । हृदयादथ निष्कान्तः, समीपस्थोऽपि दूरगः ।। ६६ ।।