________________
मन्त्रिणे कुक्कुटं दातुं प्रावर्तत ॥
अथ श्रीन्द्रराजसंस्कृतचरित्रस्य सप्तदशपरिच्छेदे वीरमत्याः कुक्कुटमुक्ति:काली मन्त्रिणे कुक्कुटं समुरका वनस्परं तत्प्रदानकाले तद्दृदयं शतधा विदीर्णमिवाभवसल्लोचनतो वाष्पधारा निर्गलिताssसीत् । सा तं मुहुर्मुहु | कंठेनाऽऽलिपन्ती वक्तुं लग्ना नाथ ! भवान् मां त्यक्त्वा दूरदेशं प्रति गच्छन्नस्ति । अत्र भवतोऽपि सम्मतिर्ज्ञायते, परमहन्तु सत्यपि नाथे निनथा मक्त्यस्मि । इदानीं मम कोडप्याधारो नास्थात्साम्प्रतमहं स्वदुःखं कस्याग्रे निवेदयिष्यामि १ । यतः --
सुहृदि निरन्तरचित्ते, गुणवति भृत्ये प्रियासु नारीषु । स्वामिनि सौहृदयुक्ते, निवेद्य दुःखं सुखी भवति ॥ ६४ ॥
स्वमनोवृत्तान्तं कस्मै कथयिष्यामि ? अहं भवन्तं कदाचिदपि नटाय न ददेयं खमेऽपि भवद्यानमनिच्छन्त्या मे भवज्जीवनरक्षार्थमेवत्करणमभूत् । हे नाथ ! भवान् यत्र कुत्राऽपि तिष्ठतु, परं मां कदापि नो विस्मरे:, मयि दया रक्षणीया, मम हतभाग्मायाचिन्ता रक्षितव्या । यदि मया कोऽप्यपराधः कृतो भवे तदा स विस्मरणीयः, बहन्तु भवन्तं क्षणमात्रमपि हृदयान दूरीकरिष्यामि, सदैव स्वमनोमन्दिरे संस्थाप्य भवन्तं पूजयिष्यामि स्मरिष्यामि च । भवतश्ऽपीयं दासी न विस्मर्तव्या, अनन्ताशाभृतं मे मन इदानीं देवेन मृत्तिकायां संमेलितमस्ति । मदीयाऽवशिष्टाऽप्याशाच भवद्वियोगेन नैराश्यरूपेण परिणता भवति । नाथ ! पुनरावयोनिं कदा भविष्यति तद्दिनं धन्यमेव मन्ये ।