________________
克
यित्वा ज्ञानाविधं सक्रीडं भरतादिनाटकं विधातुमादिदेश सेऽपि तथैव चक्रुः । तदा गुणावल्यपि कोडे कुटपिञ्जरं धृत्मा गवाक्षेण सम्यग् नाव्यं पश्यन्त्यासीत् समाप्ते ना पूर्ववत्स नटो शन्द्रस्य लोकं गायं गायं वीरमत्याः पार्श्वे पारितोषिकं मार्गितुं लमः परं तया तु नामश्रवणेनैव दग्धीभूतया न तु नटस्य श्लाघा कृता, न च तस्मै पारितोषिकमपि दत्तम् । अदने तथा पारितोषिकेऽन्येऽपि दर्शकाः प्रदानसमर्था न बभृवुः । सर्वे मनस्येवं विचारयन्तरसदाऽसन् - यद् वीरमत्यद्येवं विपरीतं कथं करोति ? परं कोऽपि वृत्तान्तस्तेषां ज्ञानगोचरे नागतः । शिवकुमारेण परित सादृष्टिः पातिता, किन्तु चन्द्रं विना तस्य सकलाऽपि परिषद्विना लवणं भोजनमिव करीन्द्रं बिना सैन्य मित्र, पत्रं विना लतेव निःशोभा प्रतीताभूत् । इतः पिञ्जरान्तःस्थो राजा चन्द्रो नटस्येमामवस्थां विलोकयमासीत्, नटशासकचस्य नाम ग्राहं ग्राहं जयशब्दोच्चारणमकरोत् । अतोऽस्थिरमनसा चन्द्रेण वस्तनवदद्यापि रत्नजटितैका कंसी पिञ्जराभ्यन्तरतो बहिर्निःसार्य पातिता । लक्षमूल्यमिता सा कचोलिका शिवकुमारेणोर्ध्वादूर्ध्वमेव लाला राज्ञश्रन्द्रस्य बहुतरं यशो गीतम् । एतद्लोकमानैरन्यैर्देर्शकैरपि मंधु रूप्यकवस्त्राभूषणानां षृष्टिरारब्धा तदा शिवकुमारः स्वपरिश्रमस्य समुचितं विश्राणनं प्राप्य धन्यंमन्यो जातः । परमेतदसहमाना वीरमती चन्द्रस्य धृष्टतार्थं क्रोधमन्नवरुध्य द्रागेव खड्गं करे कृत्वोषगुणावलि गत्वा चरणायुधं संम्बोध्याचकथत्-रे दृष्ट | इदानीमपि ते त्रपा नाज्याति ? त्वया मत्सः पूर्वं दानं कथं दत्तम् १ कुक्कुटो भूत्वाऽपि त्वं नैर्ज घाध्यं न जहासि १ अस्तु, लाहि सम्प्रति तत्फलं स्वाद्यामि । अधुनाऽहं त्वां कथमपि जीवितं नैव त्यक्ष्यामीत्युक्त्वा तथा कुक्कुट द्विढं कर्तुमसिरुत्थापितः परं तावन्मध्ये पतिस्वा गुणावल्या झटित्येव तस्याः करो गृहीतः कृताञ्जलिशोषे - मातः ! इत्थं रोष मा कुरुष्व अस्प दानादिप्रदानप्रज्ञा कुतो विद्येत ? खगोभ्रं वार्तो कि जानीयाद १ जलं पिबति पिवति स्वधः पतिता, नटेन
चन्द्र