________________
मास्ताम् । यथा केचिदू हटयोगसाधकास्तपस्विनः शिरो नीचैः कृत्वा ध्यानं कुर्वन्ति तथादृश्यं जातम् । अथ पुनरुत्प्लुत्य वामपादतलेन तत्पूगीफले स्थित्वा तदैकेन पादतलाश्रयेण परिभ्रम्य २ लास्यं कुर्वत्यास्तम्या लास्यं सर्वे जना मुक्तकण्ठं प्रशशंसुः । चान्ते तथा पञ्चरंगरञ्जितानि पञ्च वस्त्राण्यादाय तस्मिन् वंशे स्थितयैव परस्परं गुम्फित्वा तेषामेकं पञ्चरंगपुष्यं निर्मितम् । तदानीमपि तच्छरीरं मनागपीतस्ततो न चलितं न च तया पुष्पविरचने भ्रमः कृतः । तदद्भुत कलामिमां वीक्ष्य सर्वे दर्शका मुग्धा बभूवुः । यतः - देवानामिदमामनन्ति मुनयः कान्तं क्रतुं चाक्षुषं, रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा ।
त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते, नाव्यं भिन्नरुचेर्जनस्य बहुधाऽप्येकं समाराधनम् ।। ५५ ।। स्त्रीत दर्शयित्वाऽनन्तरं सा वंशद्धरज्ज्जाश्रयेण नागिनीवाऽघोऽवततार | नीचैवतरितायामेत्र तस्यां वज्जनकेनान्यैश्व नटैरया शित्रमा लाग्रीवां संश्लिष्य तत्कलानैपुण्यार्थं पृष्ठं स्फालयद्भिस्तस्यै स्वाशीर्वादो दसः ।
यतः-गुणेन स्पृहणीयः स्यान्न रूपेण युतो जनः । सौगन्ध्यवर्ज्य नादेयं, पुष्पं कान्तमपि स्वयम् ॥ ५६ ॥
तदनन्तरं रायाः सम्मुखमुपस्थिता वाद्यं वादयन्तः सर्वे नटा राज्ञश्रन्द्रस्य जयध्वनिं कृत्वा तस्याः पावत्पारितोषिकं यया चिरे । तेषामास्याद् राज्ञन्द्रस्याख्यां निशम्य देव्यै वीरमत्यै प्रचुरमरुचिकरमलगत्, यतस्तस्याः समक्षे त्वन्यः कोऽपि प्रशंसनीषो नाssसीत् । अन्यश्लाघामाकर्णयन्त्या एव तस्याः पादतला दाशीर्षं वपुर्ज्वलति स्म । वराकाणां तेषां नटानां तस्या एतन्मनोवृत्तस्य ज्ञानं कृतो भवेत् ? अलब्धे पारितोषिके तस्था अपूर्ण मनोरञ्जनं मन्त्रानैरतैः पुनरप्यनेकविधं नाव्यं दर्शयितुमारब्धम् । अथाऽपि पुन