________________
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य षोडशपरिच्छेदे शिवमालायै चन्द्रमुपादिदानम् - rest शिवाला स्वयाऽन्यैव पञ्चशतैः सत्रा शिवकुमाराख्यः प्रसिद्धो नटस्वत्रामापुर्यामागतवान् । नटकर्म निपुणैस्तैः सार्द्ध शिवकुमारेण राजसभामेत्य, वीरमतीय प्रणम्य स्वक्रीडां दर्शयितुमाज्ञा ययाचे, खदा वीरमत्योक्तम् — दे नटराज ! किन्ते नाम स्वं कुतथ समागतोऽसि ? बद्धाञ्जलिना शिवकुमारेणोक्तम् — राजमातः ! शिवकुमारनामाहमुत्तराशातो अनेकेषां राज्ञां मनोरञ्जनं कृत्वा विपुलं पुरस्कारं लभमानोऽत्राऽऽतोऽस्मि, यथाश्रुतैव भवदीयेयमाभापुरी विद्यते । इदानीं क्रीडां दर्शयितुमाज्ञापयन्तु भवत्यः यतोऽहं भवतीं भक्त्याः सभासदो जनांश्व प्रसाद्य दैन्यान्मुक्तो भवितुं शक्नुयाम् । राज्ञ्या वीरमत्या शिवकुमाराय सहर्षं क्रीडां दर्शयितुमाझा दत्ता । तेन हर्षितेनामुना तदानीमेत्राखिलेम्यो नटेम्पः खेलनायाऽऽदिष्टं, ततः प्राप्तादेशस्वैर्विविधाः खेला दर्शयितुमारब्धास्तदा वाद्यारावं श्रुखा पिञ्जरं लात्वा गुणावल्यपि गवाक्षमेत्योपविष्टा । सर्वेषां नटानां खेलाया अनन्तरं शिवमालाsपि स्वनाट्यदर्शनार्थ समद्धा जाता । तदा नटैः प्रथममेकमत्युच्छ्रितं वंशं भूमावारोप्य स चतुर्दिक्षु तथा सम्यग्रश्मिभिर्बद्धो यथेतस्ततश्चलितुं न शक्नुयात् । अथ सादौ शोपरि पूगीफलमेकं धृत्वा वीरमर्ती राशीश्च प्रणम्य राज्ञश्चन्द्रस्व जयजयारावं कुर्वती वंशोपरि चरिता । ऊर्ध्वं गता सा वंशाग्रे घृतपूगीफलस्योपरि स्वनाभि संस्थाप्य, स्वोदरबलेन परितो वर्तुलाकार भ्रमणं चक्रे । अधःस्था वाद्यं वादयन्तोऽनेके नटाश्च तदभिमुखं सावधानदृष्ट्या स्थिता आसन् । शिवमाला स्वदेहं कुलालचक्रवद् भ्रमं भ्रमं स्त्रकलाकौशलं दर्शयन्त्येककृत्वस्तस्य पूगीफलस्योपरि कृतोर्ध्वपादाऽसौ स्वशिरोबलेन स्थिता, अर्थातस्याः शिरोऽधः पादौ चोर्ध्व