SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ६ सस्मिन मे स्वाऽप्रतिष्ठा लक्ष्यते, ततो भवानेव सकल सैन्यं लात्वा रणक्षेत्रे शत, तश्च परितोऽनरुध्य तराष्टाप कर्कशो दंडो दातव्यः। | मयाऽऽशीर्दीयते, यद्विजयलक्ष्मीभवन्तमेव वरीष्यतीति भवत एकमपि रोम वर्क न भविष्यति, भवता चिन्तालेशोऽपि न कर्तव्यः । यतः विनाऽप्य(रः स्पृशति बहुमानोन्नतिपदं, समायुक्तोऽप्यर्थैः परिभवपदं याति कृपणः । स्वभावानुभृतां गुणसमुदयावाप्तिविषयां, घुति सैंहीं किं श्वा धृतकनकमालोऽपि लभते ? ।। ४९ ॥ . तस्यास्तदा मलवदादेनं निशम्य राजसदो गतेन तेन समस्तं सैनिक संमील्य वीरमत्यादेशः श्रावितः सहैव च वेनोक्तम्-राजा हेमरथ | आमानगरीनिकटमागत्योपस्थितोऽस्ति, अतो वयं तेन यदि न योत्स्यामहे तदा स भाभानगरीमात्मसात्करिष्यति, वयस संकटे | पतिप्यामः । किं वयमिदानी स्त्रमात्ममिरक्षा न करिष्यामहे ? किं क्यमित्थमेव हस्ते हस्तं रक्षित्वोपविष्टाः स्याम १ क्षत्रियत्वं 18 | कलक्षितं कुर्याम, नहि नहि स्वप्नेऽप्येवं न भविष्यति । यद्यस्मासु जीवत्सु सोऽध्यकरिष्यत्तदा पुनर्वयं जगति मुर्ख कयमद्रहै| क्ष्याम ? अत्र विषयेऽस्माकं क्षात्रतेजोवतां वीरमत्याः किमपि नहि किन्तु स्वकुलाभिमानो द्रष्टव्यः । यतः-बालस्यापि रथे: पादाः, पनन्त्युपरि भूभृताम् । तेजसा सह जातानां, वयः कुत्रोपयुज्यते ? ।। ५० ।। ___यदि राजा चन्द्रस्ताम्रचूडो जातस्तेन किमभूत् ? तेन स्वसेवा छमा स्थातुं न शक्नोति । अस्माभिस्तु साम्प्रतं निजमातमुत्रमामानगरीमभिद्रष्टव्यं यतस्तद्रक्षाकरणं स्वकर्तव्यमस्ति । अत उत्तिष्ठन्तु मनस्विनो वीराः ! कटिबद्धा भूत्वा शत्रोर्मानमर्दनार्थ सनद्धा भवन्तु ।
SR No.090467
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1998
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari, Biography, & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy