SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ तेनास्माकं चतुर्णामपि कोटिदीनाराणां पारितोषिकमेकैकस्मै प्रदत्वम्, यतो दानमाहात्म्येनेह परत्र च किश्चिदपि दुस्सायं नास्ति। यतः-दानेन भूतानि वशीभवन्ति, दानेन वैराण्यपि यान्ति नाशम् । परोऽपि बन्धुत्वमुपैति दाना-सतः पृथिव्यां प्रचरं हि दानम् ॥ ३० ॥ राजन् ! सर्वेषामपि प्राणिनां लोभो दुरत्याज्य इति बद्धमुखा वर्ष तदानीभेव सर्व निश्चित्य वरदर्शनं विनवागताः । तस्माविश्वयं भवन्तं प्रति विश्वासघातका: स्मस्तदर्थ दंड्यानस्मान यधारुचि दंडयितुमर्हति, अत्र मिथ्यालेशोऽपि नास्ति । तद्वचसा विश्वस्तो राजा प्रेमलाया निर्दोषता नितराममन्यत । हे प्रिय पाठकाः ! पुण्योदये जाते सर्वेऽपि सानुकूलता बजन्ति । अतश्चोक्तम्-न देवतीर्थन पराक्रमेण, न मन्त्रतन्त्रैर्न सुवर्णदानः । न धेनुचिन्तामणिकल्पवृक्ष-विना स्वपुण्यैरिह वाञ्छितार्थाः ।। ३१ ॥ तदा राक्षा सुबुद्धिरूपे-मन्त्रिन ! अत्र विवादे तु बहुप्रपश्चोऽस्ति, एते चत्वारः प्रलोभने पतिता अतस्तैरदर्शनं निनैव विवाहो निर्धारितः। त्रयस्तु लोभनाले पतिता बालका इन कपोलकल्पिता का श्रावयन्ति । तत्र प्रलोभनेनाऽनुचितकारिणाम येतेषां क्या दोषो न मन्ये, यथा सिंहलेशेन तन्मन्त्रिणा चातिकृतापराधं मन्ये । यतस्ताम्यां शास्वाऽपि भूवपूर्वकृष्टिनः कुमारस्य सकलदूषण हैं। महितः शिरसि स्थापनाय चेष्टितमस्ति । अत एतान स्वपन्त्रिणो मोक्तुमिच्छामि, पर सिंहलेशादीनां विषये ते को विचारः ? सा दिनोक्तम्-सर्वतः प्रथम प्रेमलाया यथार्थपतेरन्वेषणं कार्य, तच्छुद्धिं तद्वार्ताश्रवणश्च याबदस्य विवादस्य तवनिर्गमन कथं भविष्यति ।
SR No.090467
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1998
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari, Biography, & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy