SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ सुबुद्धिनाऽऽद्धृतास्ते राज्ञा पृष्टशः - विवाहनिश्वयार्थ तत्र गतैर्भवह्निः कुमारो दृष्टो न वा १ सम्प्रत्यहं यथार्थं श्रोतुमिच्छामि, यदि भवन्तो मिथ्याभाष्य मच्छलनाय चेष्टिष्यन्ते तदा तनिमित्तं कठोरादपि कठोरं दंडं दास्यामि । यतः - अहो ! अहीनामपि खेलनेभ्यो दुःखानि दूरं नृपसेचनानि । एकोsहिना मृत्युमुपैति दष्टः सपुत्रपौत्रस्तु नृपेण दष्टः ॥ २८ ॥ राज्ञो भाषितं श्रुत्वैव विच्छायमुखास्ते परस्परं मुखावलोकनं कर्तुं लग्नाः । राजा ये यमपश्यत्स एव प्रथमं तं पृच्छत्विवि नेत्रसंकेतं कुर्वन्नासीत् । सुबुद्धिना तेषां तदवस्थां विलोक्य राज्ञः कर्णे प्रोक्तम् — राजन् ! मम तु स कपटमयं प्रतिभाति, एते सर्वे प्रथमं वक्तुं धिभ्यति, अंत एते चत्वारोऽपि रहसि पार्थक्येनाहृताः प्रष्टव्याः, येन समस्तं रहस्यं विदितं भवेत् । सुबुद्धिवचो युक्त शाला देष्वेकतमं मन्त्रिणमाहूयैकान्ते सत्यकथनाय राजाऽवदत्, बद्धाञ्जलिना तेनोक्तम् - महाराज ! मया मल्लवणो भक्षितस्तस्माद् भवत्समक्षे कदापि मिथ्या न वदिष्यामि । मया भवत्कार्येऽवश्यं त्रुटि कृता, यदा सिंहलपुर्यो सर्वे वयं कुमारदर्शनाप परिणयनिश्रयाय चाऽगच्छाम तदाऽऽजसे विस्मृताऽङ्गुलीयकाऽऽनयनाय तत्र गते मध्यस्तर एव कुमारं विलोक्यैतैस्त्रिमिर्विवाहः स्थिरीकृतः । न त्वहं स्वनेत्राभ्यां कुमारमद्राक्षं न च वार्तायां कंचिद् भागमग्रहीषम्, अतोऽद्धं नैजमागोऽङ्गीकृत्य भवन्तं क्षमाप्रार्थनां याचे । तस्य तद्वचनं श्रुत्वा राजा विषेद --- यदन्यद् वृत्तं तथ्यमतर्थ्य वा स्थात्किन्त्वेतेन बरो न दृष्ट इति तु निर्विवाद एवाऽस्ति । अत:परमन्यः किं कथयति १ तत् श्रोतव्यं तदैवाऽन्यमपि तथैवाऽऽय पृष्टे सति तेनोकम् — राजन् ! सर्पो बहिस्तिर्थक चलतु नाम,
SR No.090467
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1998
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari, Biography, & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy