SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ नमस्कार व्याख्यायां ॥५७७|| पल्योपमस्य संख्येयभागेन गुणिनाः, प्रथमसमयकृताः कृष्टयः श्रेण्या असंख्येयभागप्रमाणाः, एवं द्वितीयादिष्वपि समयेषु श्रेण्या असंख्येयभागप्रमाणाः तावद्यावन्कृष्टिकरणस्यांनश्वाशेषो युगपन्नष्टः ॥ अधुनाऽऽयुषा समाणि कर्माणि जातानि अधुना सूक्ष्मक्रियाप्रतिपाति ध्यानादिममप्रकारार्थोच्छित्यनन्तरसमय एवं योगिनः अयोगिनः, अयोगिगुणस्थानपर्यीयमास्कन्दन्तः अयोगिपर्यायेण विनाशस्तेनैव चोत्पादः केवलिपर्यायेणावस्थानं, अयोगिपर्यायेत्यनन्तरमेव मैलेस्यपर्यायमवामोति व्युपरतक्रियानिवृत्तिं च ध्यानं ध्यायति, चिन्ता व्यापाराभावात् ध्यानाभाव इति चेन् न, कर्मक्षपणसामान्याद् ध्यानमित्र ध्यानमिति तत्सिद्धेः, कथम् ?, इह यथा | पृथक्त्वैकत्ववितर्कपूर्व शुक्लध्यानद्वयपरिणत आत्माऽर्थान् चिन्तयन् सांपरायिकं दहति यथा वा धर्मस्य ध्याने परिणतः कर्मपर्वतं क्षपयति तथा सूक्ष्मक्रियाप्रतिपातिच्युपरतक्रियानिवृत्तिध्यानद्वयपरिणतोऽप्यात्मा असन्यामपि चिन्तायां कर्म क्षपयतीत्यतः कर्मक्षपणसामान्यात् ध्यानमिव ध्यानमिति सिद्धं अथवा दृष्टत्वादुपयोगवत् ध्यानमित्र ध्यानं, इहासर्वज्ञस्य उपलिप्सोराभोगकरणमुपयोगः, न च ज्ञानावरणातीतत्वाद्भगवानुलिप्सुः, कथं?, सर्वार्थप्रत्यक्षत्वाद्, अथ च पदार्थावगमसामान्यमनुभवति, उपयोग इवोपयोगः, क उपमार्थः १, इह यथा क्षायोपशमिकीपयोगपरिणन आत्माऽर्थानेकदेशेन मंगच्छमान उपयुक्त इति शच्यते तथा केवलज्ञानपरिणतोऽप्यात्माऽर्थान् माकल्येन मंगच्छमानोऽसत्यामप्युपलिप्सायां अर्थावगमसामान्यादुपयुक्त इति शब्धते, न चोपलिप्सापूर्वक उपयोगो भगवति नास्तीत्यत उपयोगाभावः प्रतिज्ञायते, साकाराष्टतयोपयोगप्रतिज्ञानात्, न चोपयोगं कृत्वा क्षायोपशमिकोपयोगतुल्यताऽम्य प्रतिज्ञायते न वा क्षायोपशमिकातुल्यतया अस्योपयोगाप्रच्युतिर्यथा भवति तथा चिन्ताव्यापारनिरुत्सुकस्यापि भगवतो ध्यानमिति युक्तं, कर्मदहनसामान्यात् कथम् १, इह यथा पूर्व शुक्लध्यानद्वयपर्यायपरिणत आत्मा कर्म दहति अयोगि गुणस्थानं ॥५७७॥ 1.
SR No.090462
Book TitleAgam 40 Mool 01 Aavashyak Sutra Part 01
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1985
Total Pages617
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_aavashyak
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy