SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ ततस्त्याज्य एव सः । इति निणोक्ट निशम्यापि राज्ञा स्वकदाग्रहो न मुक्तस्तेन राज्ञः पापबुद्धिरिति लोके नाम जातं मैत्रिणस्तु धर्मबुद्विरिति । ततस्तयोः सर्वदा पुरपापविषये विवादो भवति स्म । पुनमंत्री तु तं धर्मात्मानं विधातुं तेन नृपेण सह नित्यमेव विवदते स्म । यतः-यात्रार्थ भोजनं येषां, दानार्थं च धनार्जनम् । धर्मार्थ जीवितं येषां ते नराः स्वर्गगामिनः ॥ २२॥ ___ अथैकदा हास्ययुक्तवचनेन राज्ञोक्तम्-भो मंत्रिन् ! त्वं बहुसरं पुण्यं मन्यसे, तर्हि तव स्वल्पैव लक्ष्मीः कथं ? पुनर्मम पापादेव राज्यादिसुखं कथं जातम् ? एतनिशम्य मंत्रिणा चिन्तित रूप जडमतिः, अहह ! यो यस्य शुभाशुभस्वभावः पतितः स तं कथमपि नैव मुंचति । यतः-कर्परधूल्या रचितस्थलोऽपि, कस्तूरिकाकल्पितमूलभागः । हेमोदकुंभैः परिषिच्यमानः, पूर्वान् गुणान्मुंचति नो पलाण्डः ॥ २३ ॥ | माधुर्य चेक्षुखंडे जगत्ति सुरभिता चंपकस्य प्रमूने, शैत्यं श्रीखंडखंडे भ्रमरपरिकरे चातुरी राजहंसे । | रागः पूगीफलानाममितगुणवत्ता नागवल्लीदलानां, सवृत्त्या चारु शीलं कथमपि कथितं फेन कस्योपदेशः ? | अपि च-शर्करासर्पिषा युक्तः, निम्बबीजः प्रतिष्टितः । क्षीरघटसहस्रश्च, नियः किं मधुरायते ॥ २५ ॥ ___ततो राम्रोक्तं यद्यहं युद्धवधादिकं पापं करोमि सेन मे हयगजान्तःपुरभाण्डागारादिद्धिय, पुण्यं कुर्वाणस्यापि ते गृहे मत्सम । द्रव्यादिकं नैव वर्तते, यत्किमप्यस्ति तदपि समस्तं मयैव समर्पितम् । न च ते पुण्यफलं, अतो धर्मस्य किमपि माहात्म्यं नास्ति, मम
SR No.090461
Book TitleKamghatkathanakam
Original Sutra AuthorN/A
AuthorBhupendrasuri Jain Sahitya Samiti
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1941
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & Conduct
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy