SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ नट ततो यत्र मंत्रिसैन्यमवस्थितं तत्र सोऽपि गतोऽविलम्बेनैव यतोऽईकार्येवं नैव विचारयति । यथा-बलिभ्यो बलिनः सन्ति, वादिभ्यः सन्ति वादिनः । घनिभ्यो धनिनः सन्ति, तस्मादर्प स्पजेद् बुधः ॥७८॥ अथ मध्ये समारोप भटाः प्रतिमा अन्योन्यमभिमुखीभूवुः, रणतौर्यत्रिकं च वादितम् । तदनन्तरं महाशूरतामिमानेन ते उभये युद्धमारेभिरे । तद्यथा- हरित मिर्हस्तिनः, वाजिभिर्वाजिनः पत्तिभिः पत्तयो, रथिमी रथिनो, नालगो लिभिर्नाल गोलिनः संघट्टितास्तेनोच्छ लिया रजोराजिरादित्यं निस्तेजसं चकार । हस्तिनश्च तत्र वारिवाहा इव जगर्जुः, विद्युत्वाता इव कृपाण महारा जाताः शिलीमुखाश्च जलधारा इवाडवर्धन, जलप्रवाह इव रक्तप्रवाहः प्रससार तत्र रणसंमुखे ये कातरास्ते सर्वेऽपि निस्तेअसः सन्तो वर्षाकाल इन्द्रयवा इव पर्यशुष्यन, रक्तपातेन सकर्दमा मही च संजाता । रजः पूरेणाऽम्बरं प्रच्छादितं तदा किमयं काल भगत इति लोकाः संशयं चक्रुः १ | ये सुभटास्ते सिंहनादं कुर्वन्ति स्म, टेनान्यजनकृतः शब्दो न श्रूयते स्म । या निर्नाका अप्सरस्ताः सर्वा अपि नाथमभिलषन्त्यो विमान आसीनाग्तत्र समाजग्मुः, यतो रणे मृतानां स्वर्गेत्पत्तिरित्युक्तत्वात् । रोषातिशयेनैव युद्धयमानास्ते पापबुद्धिसुभटा मतिसागसुरभटैरन्वे त्वरितमेव पराजिताः । ततः पापबुद्धी राजा च तत्सुभटगणमध्य एव बद्धः । अथ मन्त्री राजानं प्रति पृच्छति स्म - किं भवान्मामुपलक्षयति १ तदा राजा कथयति स्म - भास्करमिव तेजस्विनं भवन्तं को न जानाति १, ततः पुनर्मन्त्री कथयति स्म - एतदहं नो पृच्छामि किन्तु कोऽस्म्यहमिति पृच्छामि, तदा राजा नाई जानामीति प्रत्युवाच। ततः सचिवेनोक्तं श्रूयताम् - हे राजन! सोऽहं धर्मबुद्धिनामा भवन्मन्त्री विदेशात्परानृत्य धर्मफलप्रदर्शनार्थं भवदो समाग
SR No.090461
Book TitleKamghatkathanakam
Original Sutra AuthorN/A
AuthorBhupendrasuri Jain Sahitya Samiti
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1941
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & Conduct
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy