________________
वनखण्डं समस्तं राज्यादिकं दद्दति । क ईग्योद्वाऽस्ति यस्तस्य प्रतापं सहेत ? येन मत्स्यामिनोऽग्रे गर्भः कृतस्तस्य सर्वोऽपि गर्वस्ते न श्रमजितः कः कृष्णब्रुजंर्गशिलिम्प स्वचसः दर्शयेत् ? अतएव त्वया तत्र गत्वा तेन साकं सन्धिरेव विधेयः । अन्यथा योद्धव्यं, इत्थमेव स्वामिना समादिष्टोऽस्मि च तचत्समीपेऽहं वच्मि । एतद्यदि ते प्रमाण तर्हि रणभूमौ गन्तव्यमेव, अन्यथा तृणं दन्ता निवेश्य पुरा हिर्निर्गन्तव्यम् । एवं दूतोक्तमाकर्ण्य कृतभ्रुकुटिललाटो रक्तीकृत नैत्रः श्रीपुराधीशः पापबुद्धिनृपो जगाद - क्षत्रियोऽहमस्मि मरणं त्वेकवार मस्त्येवेति कथमहं सर्व प्राक्तनं यशो विनाश नयामि ? । अओ हे दूवेश ! यथाग्नौ शलभः स्वयमेव निपत्य विनश्यति, तथा ते स्वामिनांप्ययं स्वयमेव मृतिपटहो वादितः । तस्मात्कथमेष कुशलपूर्वकं स्वगृई समेष्यति ? अरे ! गच्छ शीघ्रं स्वस्वामिने निवेदय-यदि ते राजा रणार्थमुद्यतो रणभूमौ सम । गमनेच्छुः पुनः सूर्योदयत एव रणकरणमर्यादा तेन ते स्वामिना स्थापितास्ति, तर्हि वस्त्र पहलवाइनं तत्सर्वे संगृह्य तेन त्वरितं समागन्तव्यं नात्र विलम्बः करणीयः । मया चैतानि गोपुराणि निशाकाले नगररक्षार्थं पिहितानि प्रातरुद्घाटय रणतूर्यवादन पूर्वकं तेन समं सम्यग् योत्स्ये । इत्थं पापबुद्धिराजवाक्यं निशम्य शीघ्रमेवागल्य दूतेन स सर्वोऽप्युदन्तो निजराजानं प्रति निगदितः । अथ पापबुद्धी राजा प्रातश्चतुरंगिगीं सेनां सखीकृत्य स्वपुराद्वहिर्निगः, परं मार्गेऽपशकुन जातं तथापि मदोन्मत्तस्स न गणयामास, यतो गर्ववशेन कुपुरुषो जनैहस्ययोग्यं वृथा कार्य किं न करोति ? यतः उत्क्षिप्य टिट्टिभः पाद-मास्ते भंगभयाद्भुवः । स्वचित्तकल्पितो गर्वः, काङ्गिनां नोपयुज्यते १ ।। ७६ ।। तथा च- विष भारसहस्रेण, वासुकिर्नैव गर्जति । वृश्चिकस्तृणमात्रेणा - प्यूर्ध्व चहति कंटकम् ॥ ७७ ॥
५