________________
रनि
णीता मंत्रिपली सा विनयसुन्दर्यपि श्रीदत्तकुंभकार गृहस्थिता, केनापि कामिना राजपुत्रेण हास्यादिना पराभूता सती, स्वशीलरक्षायै । साध्वी तथैव कपाटे पिधाय स्थिताऽऽसीत् । इतोऽयं व्यतिकरो राजलोकसकाशाद्राज्ञा ज्ञातः, ततः स्वरमरानर्थमीतेन राज्ञा फ्टहोद्धोषणा कारिता -ग कश्चिदेत कपाटनयमिष्यति हरिहर्ग च वादयिष्यति, तस्य राजा स्वराज्यार्द्ध राजकन्यां च दाम्यति । इतः स मंत्री निजनिवासार्थ स्थानं विलोक्य भोजनं च गृहीन्या यावतत्रोपवने समागतस्तावत्तत्र तेन निजत्री रत्नसुन्दरी नावलोकिता। तदेतस्ततस्तद्वने विलोकितापि पर वापि सा न लब्धेति विद्वलः सन स नगरमध्ये परिवधाम । इतस्तेन सा पटहोद्घोषणा श्रुता मनसि सर्व स्वव्यतिकरं च विज्ञाय पटई स्पृष्ट्वा बहुजनपरिघृतो मंत्री कुंभकारगृहे समागतः । तत्र च द्वारपार्श्वे समागत्य तेन श्रीपुरनग
नर्गमनकालादारभ्य गंभीरपुरप्राप्तिविनय सुन्दरीदेवकुलमोचनावधिः सर्वोऽपि वृत्तान्तो निगदितः । तनिशम्य शीघ्रं विनयसुन्दर्या I कपाटे समुद्घाटिते, तयोपलक्षितश्च मंत्री । ततः श्रीयुगादिदेवप्रासाद समागत्य प्रवहणचलनकालादारभ्य समुद्रान्तःपतनं यावत्तेन KI संवन्धः प्रोक्तः । तदा सौभाग्यसुन्दर्यपि स्वपतिमुपलक्ष्य कपाटे समुद्घाटिते । ततो मंत्री गणिकाया गृहे समागत्य सफलकप्राप्ति
समुद्रतरणादारभ्य तद्गंभीरपुरप्राप्तिनिवासस्थानविलोकनभोजन ग्रहणनिमि नगरमध्यागमनं यावद् वृत्तान्तमुक्तवानातदा तया तृती- यया रत्नसुन्दर्यापि तथैव मंत्रिणमुपलक्ष्य कपाटे समुद्घाटिते । ततस्तास्तिस्रोऽपि भायाः स्वस्थवृत्तान्तं मंत्रिणे कथयामासुः । ततः
प्रमुदिसेन राज्ञापि निजराज्यार्द्ध स्वकन्यां शीलसुन्दरीश्व मन्त्रिणेदचा साश्चर्य पृष्टम्-भवानन्धो कथं निपतित इति ? मया तु तवातिचातुर्य विलोक्यते, मतोऽहमेचे संभावयामि केनचिदन्येन कपटिदुष्टेन निपातितो भविष्यतीति । अथ न्वं स्वं यथाभूतं वृत्तं तथा निगद, तमिशम्याहं तयोग्यं दण्डं दास्यामि, येनाग्रे कोऽप्यन्यो दुष्टात्मैवविधमकार्य न कुर्यात् | ताशानि राज्ञो वचनान्याकर्ण्य |
TKXC