________________
छति, अतस्त्वं प्रच्छन्नो भव, यतः सा राक्षसी संप्रत्येव समागमिष्यति । पुनरेषदा सा राक्षसी मया पृष्टा-हे मातः! अहमत्रारपयसदृशे सौधेऽप्येकाकिनी किं करोमि ? । अतस्त्वं मो मारय तहि सुष्टुतरं भवेत् । ततस्तयोक्त-यदि योग्यं वरमह लप्स्ये तदा तस्मै त्वां दास्यामि, हे सत्पुरुष ! पूर्वमहमेवं तया निगदितास्मि । अथ सांप्रतं तदागमनवेलास्ति सा च कदाचिन्मां ool तुभ्यं दद्यात्तदा त्वयास्या रावस्याः पाश्चौदाकाशमामिनी विधा, सप्रमावा खट्वा, महाग्रंदिव्यरत्नग्रन्थी, सप्रभावे श्वेतरक्तकरवीरकबिक चैतानि वस्तूनि मार्गणीयानि करमोचनावसरे, इति तदुक्तसंकेतं गृहीत्दा पुनस्तां कृष्णाञ्जनेनोष्ट्रिका विधाय मंत्री प्रच्छमः स्थितः । इतश्च मनुष्यं भक्षयामीति वदन्ती राक्षसी समागता, तया च श्वेताजनेन सोष्ट्रिका कन्या चक्रे, सवस्तया राक्षस्या सार्क वार्ता कुर्घत्या स्वयोग्यो वरो याचितः । तदा राक्षस्योक्तम्-कापि तव योग्यं वरं दृष्ट्वा तस्मै त्वां दास्यामि । यदुक्तं-मूर्खनिर्धनदूरस्थ-शरमोक्षाभिलाषिणाम् । त्रिगुणाधिकयर्षाणां, चापि दया न कन्यका ||५९॥
बधिरक्लीयमूकानां, खंजान्धजडचेतसाम् | सहसा घातकर्तृणां, नूनं देया न कन्यका ॥६०॥ कुलजातिविहीनानां, पितृमातृधियोगिनाम् । गहिनीपुत्रयुक्तानां, नूनं देया न कन्यका ॥६१|| सदैवोत्पन्नभोक्तृणा-मालस्यवशवर्तिनाम् । बहुवैराग्ययुक्तानां नूनं देया न कन्यका॥ ६२ ।। अतः सुकुटजात्युत्पासपितृभ्यामुभयलोकशुभेच्छयैतान गुणान् विलोक्यैव सुता प्रदेया। यथा-कुलं च शीलं च सनाथता च, विद्या च वित्तं च वपुर्वयश्च ।
वरे गुणाः सप्त विलोकनीया-स्ततापरं भाग्यवशा हि कन्या ।। ६३ ॥