________________
ण्यौदार्यगांभीर्यादिसद्गुणकलितोऽद्वितीयः परोपकारमारधुर्य उसमपुरुषश्चासीत् । अतएव मे मनस्यपि तद्वियोग महदःख मवति । - अहमपि त्वदने तदुःखं निवेदयितुमशक्योऽस्मि, परं भवितव्यता तु पुण्यशालिना महापुरुषाणामपि नो दूरीभवति ।
यतः-असंभव हेममृगस्य जन्म, तथापि रामो लुलुमे मृगाय ।
प्रायः समापनविपत्तिकाले, धियोऽपि पुंसां मलिना भवन्ति ।। ४४ ॥ न स प्रकारः कोऽप्यरित, येनेयं भवितव्यता। छायव निजदेहस्य, लंध्यते जातु जन्तुभिः ॥ ४५ ॥ अपि च-पातालमाविशतु यातु सुरेन्द्रलोक-मारोहतु क्षितिधराधिपति सुमेरुम् ।।
मंत्रौषधैः प्रहरणश्च करीतु रक्षां, यद्भावि तद्भवति नात्र विचारहेतुः ॥ ४६॥ अथ समुद्रपतिते तस्मिन्ममात्ये चिन्ताकरणं तब नोचितं, चिन्तया किमपि हस्ते नैव समायाति तत्करणेन च कर्मबन्धोऽपि भवति । यदुक्तम्-गते शोको न कर्त्तव्यो, भविष्यं नैव चिन्तयेत् । वर्तमानेन योगेन, वर्तन्ते हि विचक्षणाः ॥४७॥
पुनरिमानि सदगुणान्वितानि वस्तूनि यत्र यत्र गच्छन्ति तत्रादरमेव लभन्ते, सतस्त्वया कापि चिन्ता न विधया। यतः-शूराश्च कृतविद्याश्च, रूपवत्यश्च याः खियः । यत्र यत्र हि गच्छन्ति, तत्र तत्र कृतादराः ॥ ४८ ।।
हे सुभगे ! तेन यदि वं मदुक्तं करिष्यसि तदा त्वां निजसर्व कुटुम्बस्वामिनी करिष्यामि । तस्यैवंविधवधानतस्तया चतुरया सातम्-नूनमनेनैव दुरात्मना लोभाभिभूतत्येन कामान्धलेन च मम स्वामी समुद्रमध्ये पातितोऽस्ति । यदुक्तम्
न पश्यति हि जात्यन्धः, क्षुधान्धो नैव पश्यति | न पश्यति मदोन्मत्तो, स्वर्थी दोषं न पश्याति ॥४९॥