________________
अथ दयालुरतिसज्जनः कुंभकारोऽपि दयां विधाय प्रत्यवोचत- हे स्वसः। यत्स्वदुःखं भवेत्तनिवेदय, मया त्वं स्वसृत्वेनांगीकतासि । सनिशम्य सा प्राह-हे प्रातर्महानुभाव ! मण, मामत्रम्था मुगवा मे पतिः कापि दानग्रहणाप गतोऽस्ति, स चाधुनापर्यन्त मत्समीपे नो समामतः, तस्य पाहुवेला व्यतिगता | अथाहं निर्माथा क गच्छामीति विचार्य, अन्यत्र कुत्राप्याधारभूतं त्वत्समा-1 नमन्यजनमलभमाना वदन्तिके समागमम् । हे प्रियवान्धव ! अतःपरं त्वमेव ममाधारभूतः शरणभूतश्चासि नान्यः कोऽपि । अथ हे करुणासागर ! ममोपर्यनुग्रहं विधाय मामाज्ञापय यदहं पत्यागमनावधि त्वद्गृहे निवासं कुर्याम् । एवंविधानि स दुःखप्रलषितानि विनयसुन्दरीक्चनान्याकर्ण्य दयार्द्रचेतसा परोपकारिणा तेन तस्याः पुण्यशीलमाहात्म्येन स्वभगिनीत्वेनांगीकृत्य सम्यक् अकारेणाऽऽयास्य च स्वगृह एव सारक्षिता । ततः शीलभंगा-शोमिता सा तत्र कुलालसमनि सतीत्वपवित्रगुणग्जयती शीलवतरक्षाहेतोः मुनियमान् धारयामास । तानाह–भर्नुमिलनावधि मया भूमौ शयनीयं, शोभार्थ स्नान न करणीयं, सुन्दरवस्त्राणि त्याज्यानि, पुष्पांगरागविलेपनं त्याज्यं, ताम्बूललवंगलाजातिफलादीनि नास्वाद्यानि वै, शरीरमलमपि विभूषार्थ नापनेयं, सर्वहरितशाकानि त्याज्यानि, पुनर्दधिदुग्धपक्कानगुडखंडशर्कगपायसप्रभृति सरसमाहारं न भोक्ष्ये, किन्तु नीरस एवाहारो मया ग्राह्यः, सदैकमुक्तमेव कार्य, महत्कार्य विना गृहान् पहिने निर्गन्तव्य, गवाक्षेषु न स्थातव्यं, लोकानां विवाहायपि न वीक्षणीवं, सखीभिः सहापि - नर्मालापपुरुषलीश्रृंगारहास्थविलासनेपथ्यादिका विकथा नैव कार्या, वैराग्यकथैव परिकथनीया परिवर्तनीया च | सहाप्यालापसंलापादिकं विशेषतो न कार्य, तहिं अन्यपुरुषैः सह तु दूरे एच, किंबहुना चित्रस्था अपि पुरुषा नावलोकनीयाः। यतः-लज्या दया दमो धैर्य, पुरुषालापवर्जनम् । एकाक्रित्वपरित्यागो, नारीणां शीलरक्षणम् ॥ ११ ॥
च । कर्मकरादिभिः |