________________
एवं कुर्वती तत्र कुलालगृहे सुखेन नित्रसति स्म । इतः स मंत्री तेन व्यवहारिणा सह सुखेन रत्नद्वीपं गतः । तत्र सुरपुरनाम नगरं पुरंदरामिघव राजा राज्यं शास्ति स्म । अथ तेन व्यवहारिणा स्वप्रवहणेभ्यः सर्वैक्रयाणकान्युत्सार्य चक्षारेषु निक्षिप्तानि । तेषां क्रयविक्रयादिः सर्वो व्यवसायस्तेन श्रेष्ठिना मंत्रिणे समर्पितः तेन स मंत्री तत्र सर्वव्यवसायं करोति स्म । सागरदत्तो व्यवहारी तु नगरान्तः स्थितः गणिकायामासोज्जनि, तस्या गृहे स सागरदत्तो व्यवहारी तस्यां मुग्धमनाः निरन्तरन्तया सार्द्धममिनवान् भोगाननुबभूव | अतः सूर्यस्योदयास्तारपि न जानाति स्म । श्वाऽप्युक्तं यैर्निजशीलरत्नं विलुप्तं तैर्धनादिजन्मसमस्तं हारितम् । यतः - दत्तस्तेन जगत्यकीर्तिपटही गोत्रे मषीकूर्चक चारित्रस्य जलांजलिर्गुणगणारामस्य दावानलः । संकेतः सकलापदां शिवपुरद्वारे कपाटी हटा, शीलं येन निजं विलुप्तमखिलं त्रैलोक्यचिन्तामणिः ॥ १२ ॥ पुनस्तेन कुशीलेनापध्यानमति विपत्ति च परस्त्रीलम्पटा जना दिने दिने लभन्ते, तांथ परदारवेश्यादिभोगिनो निन्दितनरास्तथा ये दुर्जनाः पिशुनाः छलान्वेषिणश्च ते प्रतिपदं निगृह्णन्ति । राजादिलोका दण्डयन्ति स्वजनादयश्वापि निर्भर्त्सयन्ति ।
यतः--कलिः कलंकः परलोकदुःखं, यशभ्युतिर्धर्मघनस्य हानिः ।
हास्यास्पदत्वं स्वजनैर्विरोधो, भवन्ति दुःखानि कुशीलभाजाम् || १३ ॥
अथ स श्रेष्ठी विषयमोहितस्तस्यै गणिकायै प्रसादभूतं मुद्रालक्षं ददौ । स च यानि २ कार्याणि गणिका समाज्ञापयति स्म तानि सर्वाणि तत्क्षणमेवातिहर्षेण विदधे । कुलललामर्यादादीनगणयित्वा यथा मद्यपाः परवशदेहा भवन्ति तथा सोऽपि विषयमदान्धो बभूव ।