________________
यता-सामी सूरा चार करि, परिहर कायर सहि। जे संपति पारखडे, ते चारे चउसहि ॥ ९० ॥
अतो युष्माभिर्मे बान्धवरूपैः सेवकैरिद कार्य सावधानतया विधेयम् । उक्तं च-आतुरे व्यसने प्राप्ते, दुर्भिक्षे शत्रुनिग्रहे | राजद्वारे स्मशाने च, यस्तिष्ठति स बान्धवः।। ९१ ॥ अपि प-जानीयात्प्रेषणे भृत्यान, बांधवान् व्यसनागमे । मित्रमापदि काले च, भार्या च विभवक्षपे ॥१२॥ ___एवं राक्षा भृत्याः शिक्षिताः । अथ द्वितीयदिवसे तस्मिन् पुरेऽपि धर्ममाहात्म्पदर्शनार्य मंत्रिणा दंडं प्रत्युक्तम्-मो दण्ड ! कामघट मे समानयेति, तदैव स दंडस्तत्र गत्वा सर्वान हयगजसुभटान कुट्टयित्वा रुधिरवम नांव विधाय मूछामिभवान् कृत्वा राज्ञः पश्यत एव । कामघट गृहीत्वा मैत्रिगृहे समागतः । राजा तं घट गतं दृष्ट्वा विषण्ण चेता मंत्रिगृहे गत्वोषाच-मो मंत्रिन ! पापिनो गृहे सदस्तु न तिष्ठतीति तवोक्तं सर्व सत्यं जातम् । अतः सांप्रत ममालयेऽप्रमनः समुत्पमा, ततस्त्वं प्रसादं कृत्वा मत्सैन्यं सज्जीकुरु । एवं राशो बह्वाग्रहेण मंत्री तत्र गत्वा तेषां सुमटानामुपरि प्रभावान्वितं चामर युगन वीजयित्वा सर्वानपि । सजीकृतवान् । सतो मंत्रिणोक्त भो राजन् ! मद्धर्मप्रभारोऽयं दृष्टा ? राझोक्तं दृष्टः । ततो राजापि मन्त्रिप्रसङ्गाद् धर्मोऽङ्गीकवर प्रोक्तं च सर्वमपि भव्यं धर्मादेव भवति । यतः-धर्मादेव कुले जन्म, धर्माच विपुलं यशः । धर्मानं सुस्त्रं रूपं, धर्मः स्वर्गापवर्गदः ।। ९३ ।।
रम्यं रूपं करणपटुताऽऽरोग्यमायुर्विशालं, कान्तारूपाभिमतरतषः सूनवो भक्तिमन्तः । षट्खंडोर्वीतलपरिवृहत्वं यशः क्षीरशुभ्रं, सौभाग्यश्रीरिति फलमहो ! धर्मवृक्षस्य सर्वम् ।। ९४ ॥