SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ शशिकांतिसमुज्ज्वलशंखनिभं, परिपक्कसुगन्धकपित्यसमम् । युवतीमृदुपाणिविनिर्मथितं, पिव तक्रमिदं तनुरोगहरम् ।। ८८ ॥ हिमशीतलनिर्मलकुंभभृतं, घनसारसुवासितवातयुतम् ।। युवतीकरहेमकचोलभृतं, रिपुपक्षहरं पिष भूप ! जलम् ।। ८९ ॥ इत्यादि मंत्रिप्रेमवाक्यं शृण्वन रसवती भुंजानः सन राजा पार्श्वस्थान् पुरुषान् पृच्छति-भो जनाः ! एवंविधा रसवती कोवि युष्माभिस्वादिसा यकामानि वा यानि श्रुतानि का ? सर्वे जनास्तदैवमाहुन क्वापि । एवमतिभक्त्या राजादयस्सर्वे जनास्तेन भोजिताः । तदनु च तेषु केसरचन्दनच्छटा निक्षिप्ताः, तांबूलानि च सर्वेभ्यो दधानि दिव्यवस्त्राभरणादीनि च परिधापितानि । तदनु विस्मितेन राक्षा मंत्री पृष्टः-भो मंत्रिन ! एतावन्तो जनास्त्वया करय प्रसादेन भोजिताः१ मंत्रिणोक्तम्-महाप्रभावशालिनो देवाधिष्ठितस्य कामघटस्य प्रसादेन | तदा राज्ञोक्तं तं कामघटं ममार्पय, यतः शत्रुसैन्यादिकृतपराभवावसरे स सर्वदा मम महोपयोगी भविष्यति । ततोऽमात्येनोक्तम्-अधर्मषतस्तव गृहे स सर्वथा न स्थास्यति । नृपेणोक्स सकुवं मेय पश्चादहमतिप्रयत्नेन स्थाएवियामि, पुनरहे तवोपकार शास्यामि । सचियेनोक्तम्- अत:परं किमई ब्रवीमि भयदमात्योस्मीति ददामि, पर दिनत्रयं तु मवद्भिः सावधानतयावश्यमस्य रक्षा विधेयेति मया स्पष्ट झापितोऽसि । नातापरं मे कोऽपि दोष इत्युक्त्वा मैत्रिणा स कामघटस्तस्मै समर्पितः । नृपेणाप्यतिप्रयत्नेन वारयमाण्डागारे स्थापितः, परितश्च तद्धार्थ सारभूता निजसइससुभटाः खड्गखेटकधरा सेना च स्थापिता ।
SR No.090461
Book TitleKamghatkathanakam
Original Sutra AuthorN/A
AuthorBhupendrasuri Jain Sahitya Samiti
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1941
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & Conduct
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy