________________
राजादयः सर्वेऽपि जनास्तामश्रमेष्य मुखेन मक्षयामासुः प्रशशंसुश्च । तद्यथा-शुनं गोधूमचूर्ण घृतगुह-सहितं नालिकेरस्य खंड, द्राक्षावर्जूरसुंठीतजमरिचयुतं चैलचीनागपुष्पम् । पपरवा तात्रे कटाहे तलवितलतटे पावके मंदीने, धन्या हेमन्तकाले प्रियजनसाहिता भुञ्जते लापसी ये ८२ हिंग्वाजीरमरीचैलेवणपुटतरैराईकाथैः सुपकान, सिग्धान्पक्कान् मनोज्ञान्परिमलबहुलान्पेशलान्कुकमाभान । क्षिप्त्वा दन्तान्तराले मुरमुरवदतः स्पष्टसुस्थादयुक्तान, धन्या हेमन्तकाले मुखगतयटकान्भुञ्जते प्रीतिदत्तान
गोधूमचूर्ण लवणेन मिश्रितं, जलेन पिण्डीकृतहस्तमर्दितम् ।
सद्गोलिका गोमयवहिपक्काः, क्षुधाहराः पुष्टिकरा घृतने ॥ ८४ ।। इति राजादिसर्वजनमुखादेवं प्रशंसां निशम्य मंत्रिणा राजेऽमिहितम्
पिब भूप ! सुमुग्धमहो! मुदितः, कफमारुतपित्तविकारहरम् । मदनोदययोषिति कामकर, सुरभिद्रवमिश्रिततापहरम् ॥ ८५ ॥ दधि भक्षय भूप ! सुखंडयुतं, घनसारविमिश्रितगन्धयुतम् ।
शुचिकामकरं बलपुष्टिकर, शुभसैन्धवजीरकमाशुगहम् ।। ८६ ॥ घृतमद्धि जनेश्वर ! पुष्टिकर, मदनोदयमिन्द्रियतृप्तिकरं । बहुकांतिकर हृततापभरं, मधुरेशसुधारसदृरकर ८७