________________
तथा प-यत्कल्याणकरोऽवतारसमयः स्वमाश्च जन्मोत्सयो, यत्नादिकवृष्टिरिन्द्रजनिता पडूपराज्यश्रियः ।
यानं व्रतसंपदुज्ज्वलतरा यत्केवल श्रीनया, यदम्यातिशया जिने तदखिलं धर्मस्य विस्फूर्जितम् ७६ स मंन्येवं धर्ममहिमानं विमृशन परदेशादरूपदिनरेव स्वगृहमाजगाम । अथ स राजा मंत्र्यागमन विज्ञाय तस्मिन्नेव दिवसे तस्य धर्माधर्मपरीक्षाकरणार्थ बोजपूरकद्धयमानायकस्य बीजपूरकस्य मध्ये सपादलक्षमूल्य रत्नं क्षिप्त्वैकस्य जनस्य हस्ते विक्रयार्थ समपितवान्, तस्मै चोक्तम्-शाकचतुप्पथे शाकविनयकारिणे त्वयैतत्समर्पणीयम् । यावत्पर्यन्तमेतत्कोऽपि न गृहीयात्ताक्वया तत्रैव प्रच्छन्नवृत्या स्थेयं । यदा कोऽपि गृह्णीयातदा तम्याभिधान मदने वाय, तेन जनेन तथैव समस्तं स्वीकृतम् ।
यता-कवीनां प्रतिभाचक्षुः, शास्त्रं चक्षुर्विपश्चिताम् । ज्ञानं चक्षुर्महर्षीणां, चारश्चक्षुर्महीभुजाम् । ७७ ॥ ___ सवो मंत्रिणो गृहागमनानन्तरं मंत्रिणो मार्गतापोपशान्त्यर्थं तदेव मंत्रिजायया प्रेरितदासी तत्रागत्य तदेव बीजपूरक रत्नगमितं गृहीत्वा मंत्रिणे समर्पितवती, मंत्रिणापि तद्भक्षितं तन्मध्याच रत्नं गृहीतम् । अथ तेन जनेन सर्व वृत्तान्तमवलोक्य राज्ञोग्रे वृत्त सर्वमुक्त, तनिशम्य राज्ञा चिन्तितम्-अहो ! एतदपि नूनं धर्ममाहात्म्यमेवेति तेनावधारितम् । अथ रात्रौ मैत्रिणा धर्मासादितकामघटप्रभावेण सप्तशमिकः स्वर्णमयावासः कृतः, तत्र रक्तरस्नखचितानि स्वर्णकपिशीर्षकानि भान्ति स्म । द्वात्रिंशद्वादिबोपेतं दिव्यगीतनाव्यान्वितं नाटकं बभूव । एतत् दृष्ट्वा श्रुत्वा च राजा चमत्कारं गतस्सन चिन्तयति स्म। किमयं स्वर्गः किमिन्द्रजालं वा स्वप्न वा पक्ष्यामीति विचास्यक्शिायां सुष्वाप । ततः प्रभाते जायमान स्वानुचरं पृष्टवान्, तदा तेन कथितं-स्वामिभिदं नृत्य निशायां । मंत्रिणा कामघटप्रभावेण स्वर्णमयकारत्नमयकपिशीर्षकद्वानिवद्धतायुतं सौधोनममाविष्कृतम् । इतः प्रातमंत्री राजे धर्मफलप्रदर्श