________________
MARAkRAH
लषति स संयमकुशलः कथ्यते । 'पवयणकुस' प्रवचनकुशलः, तत्र प्रवचनं जिनवचनं, तत्परिपालने कुशलः, तस्मिन् ज्ञातव्ये तदुपदेशे वा कुशलो दक्षो यः स प्रवचनकुशलः । अयंभाषः-प्रवचनकुशलो नाम यः सूत्रस्य तदर्थस्य हेतुकारणप्रतिपादनपूर्वकं घारको न तु अक्षराराधनमात्रधारकः, अर्थनिर्णयप्रदानादिना श्रुतरनानां निधानमिव पूर्णः पूर्वापराऽन्याहतत्वेन प्रयचनस्य निश्चायकः, बहुश्रुताचार्यसकाशाद् वाचनासाहित्वाद् विपुलवाचनादायकः, प्रवचनमधीस्यारमनो हितमाचरति अन्येषां च हितमुपदिशति, प्रवचनाऽवर्णमापिणां निप्रद्दे समय, अनिगूहितस्वशक्तित्वेन प्रवचनप्रभावकः, स्वपरसंसारनिस्तारणे समर्थो भवति स प्रवचनकुशलः कथ्यते इति । 'पन्नत्तिकसले' प्रप्तिकुशलः, तत्र प्रज्ञप्ति म स्वसमय परसमयारूपगारूपा, तथा च स्वकीयशास्त्रप्रतिपादितानि, तथा परदर्शनप्रतिपादितानि यानि पदार्थजातानि तेषां जाने कुशलो निपुणो यः स प्रज्ञप्ति कुशलः | यः स्वसमयग्ररूपणानियममधिकृत्य कुसमयान् मध्नाति स प्रज्ञप्तिकुशलः कथ्यते इति भावः । 'संगहकसले' संग्रहकुशलः-संग्रहे दक्ष. तत्र संग्रहणं सम्यगरूपेणोपादानम् इति । स च संग्रहो द्विप्रकारकः, तद्यथा- द्रव्यतो भावतच, तत्र द्रव्यतः संग्रह माहारोपधिपात्रादीनाम , भावतः संग्रहः सत्रार्थयोः । तयोटिप्रकारकयोरपि संग्रहयोः करणे कुशलो दक्षो यः स संग्रह कुशलः । अयं भावः -संग्रहकुशलो नाम-द्रव्यमावतः सूत्रार्थादिवस्तुनालस्य स्वात्मनि समाइकः, तथाहि-गृहीतमौनव्रतस्याभाषणे केनापि कृतप्रश्नस्योत्तरभाषणम् , वाचनादानेन क्लान्ते गुरौ साधूनां वाचनादानम् , देशकालानुसारेण आचार्यादीनां ग्ला नाचनुकम्पनस्य स्मारणम् , यथादेशकालं बालवृद्धाऽमहानामनुकम्पनम् , सामाचार्या सीदतां कथञ्चित् रुष्टानां वा शास्त्रोपदेशनोऽनुशासनम् , ज्ञानाचारादिषु अभ्युधत्तानामुपदणम् , यद यस्योपकारक मक्कमुपधिर्वा तत्तस्य स्वयमानीय प्रदानम् , सौवनलेपनादिकुर्वतो दृष्ट्वा-इच्छाकारेण भवत इंदमहं करोमोति भणनं तस्करण कारापणं वाडन्यसकाशात् इत्यादिगुणानां संग्रहो यस्मिन् वियते स संग्रहकुशल इति । 'उवगहकुसले' उपग्रह कुशलः, तत्रोप सामीप्येन पहपामुपप्रहः, स चोपग्रहो द्विप्रकारकः, तथथा-द्रव्यतो भावतश्च । तत्र येषां साधूनामाचार्य उपाध्यायो वा गणप्रवर्तको न विद्यते तान् आत्मसमीय समानीय तेषामित्व दिश इन्वरकालभाविनी दिशम् भाचार्यत्वमुपाध्यायत्वं च प्रकल्प्य तान् तावत्पर्यन्तं धारयति यावदाचार्य उपाघ्यायो वा निष्पाद्यते, मयं च यत उपयहः । यः खलु विशेपेण सर्वेषामेव सूक्ष्मवादरजीवानामुपकारे वर्तते स भावत उपग्रहः, तत्र कुशल उपग्रहकुशलः, तत्र उपग्रहो नाम-बालासमर्थवृद्धमार्गगमनादिश्रान्ततपःक्लान्तवेदनार्तजातरोगातकानां शल्यानिषधोपविभक्तपणनौषधमैषज्योपनहिकोपकरणादिभिरुपमहोपष्टम्भकरणम् । कथमित्याह-पूर्वोक्तबालादिभ्यः प्रोक्तं शय्यादिवस्तुजात स्वयं ददाति, मन्या दापयति, तथा स्वयं वैयावृत्यादि करोति अन्यैर्वा कारयति,