SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ भोग्यम् ३० २०२४ पारिहारिकाऽपारिवारिक भोगविधिः ६९ स गच्छस्य शुभाशुभव्यवस्थामुपेक्ष्य स्वयं जीवत् नान्यं गच्छयोग्यं साधुं स्वपदे युवराजत्वेन स्थापयति तेन तस्मिन् कालगते परस्परकलदभावतो गच्छो विनाशमुपैति तस्माज्जीविते एव स्वस्मिन् गच्छनिरपेक्षाचार्य विषयकम् । एवं आचार्य उपाध्यायो वा स्थापनीय इति । प्रस्तुतं सूत्रं सति गच्छ्वासिनो यस्मिन् विश्वासः स्यात्तमेकपाक्षिकम् अपवादे भिन्नपाक्षिकं वा साधुमाचायोंपाध्यायत्वेन स्थापयेयुः, येनास्वामिको गच्छो न भवेदिति । सू० २३ ॥ सूत्रम् - बहवे परिहारिया बहवे अपरिहारिया इच्छेज्जा एगयओ एगमासं वा दुमासं या तिमासं वा चाउमा वा पंचमासे वा छम्मासं वा बत्थर ते अन्नमन्नं संभुजंति अन्नमन्नं नो संभुनंति मासते तुभो पच्छा सन्देवि एगपओ संमुंजेति ॥ सू०२४ ॥ छाया - बहषः पारिहारिकाः बहवोऽवारिहारिकाः इच्छेयुः पकत्र एकमासं वा हिमा था त्रिमा वा चतुर्मासं या पंचमार्स वा पण्मासं वा वस्तुम् ते अभ्योऽन्य संभुञ्जते भन्योन्यं नो भुञ्जते मासान्ते ततः पश्चात् सर्वेऽपि एकत्र संभुञ्जते ॥ सु० २४ ॥ भाष्यम् – बहवे परिहारिया' बहवोऽनेके द्वित्रादयः पारिहारिकाः संप्राप्तपरिहारतपःप्रायश्चित्तवन्तः मध्ये परिवार बहुः द्वित्रादयोऽपारिहारिकाः पारिहारिकभिन्नाः दोषाभावात् परिद्वास्तपोवर्जिताः शुद्धा इत्यर्थः सर्वे ते अशिवादिकारणवशात् तपोवद्दननिमित्तं वा 'इच्छेज्जा' इच्छेयुः, किमिच्छेयुस्ते सर्वे ! तत्राइ - ' एगयओ' इत्यादि, एगयओ' एकतः एकत्रस्थाने 'एगमासे वा' एकमासे वा मासैकमात्रं वा 'दुमालं वा' द्विमासं चा मासद्वयं वेत्यर्थः 'तिमासं वा' त्रिमासं वा मासत्रयमित्यर्थः, 'चाउम्मासं वा' चतुर्मासं वा मासचतुष्टयं यावदित्यर्थः ‘पंचमासं वा' पञ्चमासं वा मासपञ्चकमित्यर्थः, 'छम्मासं वा' षण्मासं वा मासषट्कं वा 'वत्थए' वस्तुं यावद् मशिवादि निवर्त्तेत तावत् एकत्र वासं कर्तुमिति, तत्र 'ते अन्नमन्नं संश्चजति' इति ते पारिहारिकाः अन्योऽन्यं परस्परं पारिहारिकाः पारिहारिकैः सार्धं 'संयुजते' सर्वप्रकारैः संभोगं कुर्वन्ति तेषां सादृश्यात्, 'अन्नमन्नं नो संचजति' इति पारिहारिकाः यावत् कालपर्यन्तं परिहारतपो वति तावत्पर्यन्तं ते परस्परं पारिहारिकाः पारिहारिका मिलिया संभुञ्जते इत्यर्थः वा अथवा अपारिहारिकैः साकं न संभुञ्जते । ययं भावः- ये प्रतिपन्नपरिहारतपोवन्तस्ते तथा ये परिहारतपोऽधुना न बोहुमारब्धवन्तस्ते, एते परस्परं न संभुञ्जते, एवं पारिहारिका अपारिहारिकाश्च एतेऽपि परस्परं न संभुञ्जते इति । प्रतिपन्नपरिहारतपसः पारिहारिकास्तु परस्परं संभुग्जते इति पूर्वमुक्तमेवेति । 'मासते' यैः षण्मासाः सेविताः तेषां यः षण्मासो परिवर्ती मासस्तं यावत्, षण्मासोपरि एकमासपर्यन्तमित्यर्थः ते पारिहारिकाः परस्परं पारिहारः सममपारिहारिकेव सममेकत्र न भुञ्जते, आलापादीनि परस्परं कुर्वन्ति । 'तुओ पच्छा' ततः पश्चात् षण्मासोपरि मासपरिपूर्णानन्तरम् 'सम्वेवि एगो संभुजंति' सर्वेऽपि प्रतिसेवित परिहार तपसः अपरिहारिकाश्चैकतः एकत्र स्थाने समुञ्जते सर्वप्रकारैः संभोगं कुर्वन्ति, मत्र ये पारिहारिकाs
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy