SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ચૂંટ stances उपाध्याये वा मृते सति 'कप्पड़' कल्पते 'आयरियउवज्झायाणं' आचार्योपाध्याययोः 'इचरिर्य' इत्यरिकां कियत्काळ भाविनीम् अल्पकालिकीम् यावदन्यो विशिष्टतर आचार्योपाध्यायपदयोग्यः प्रवज्याश्रुताभ्यामेकपाक्षिको न लभ्यते तावत्कालिकीम् इत्वरग्रहणमुपलक्षणं यावत्कथिकांच यावज्जीवभाविनो 'दिसं वा अणुदिसं वा' तत्र दिशम् आचार्यत्वमुपाध्यायत्वं वा अनुदिशं वालाचार्योपाध्याय पदद्वितीय स्थानवर्त्तित्वं वा 'उद्दिसत्तर' उद्देष्टु कर्तुम्, यद्वा 'पारिव श्राखयमेव वादुम् 'जा वस्स गणस्स पत्तियं सिया' यथा येन प्रकारेण तस्य गणस्य प्रत्ययं विश्वासः स्यात्, तथा दिशमनुदिर्श वा उद्दिशेत् मृते आचार्योपाध्याये तत्पदेऽन्यं कमपि स्थापयेत् स्वमात्मानं वा स्थापयेत् येन गणस्य विश्वासः स्यात् तथैव कर्त्तव्यम् योग्यस्यैकपाक्षिकस्याभावे भिन्नपाक्षिकमपि अपवादपदेन स्थापयेत्, किन्तु गणमाचार्योपाध्यायशून्यं न कुर्यादिति । मयं भावः यथाचार्योपाध्याययोराकस्मिक मरणादिमा गच्छे तदभावे जाते सनाथयितुं यावत्पर्यन्तं पदवीयोग्यः श्रमणा न मिळेत् तावत्कालं साधारणमपि यस्योपरि गणस्य विश्वासः स्वात् तादृशं साधुमाचार्योपाध्यायपदे स्थापयितुं कल्पते अनेन प्रकारेण स्थापितः आचार्यः उपाध्यायो वा इत्वरोऽल्पकालिकः इति कप्यते । अब यदि कश्चियोग्यः सारणावारणादिगच्छ कार्यदक्षो बहुश्रुत एकपाक्षिकः प्राप्यते यदुपरि गच्छस्य विश्वासश्व स्यात् स यावज्जीवमाचार्य पदे उपाध्याय पदे वा स्थापयितुं कल्पते स च यावज्जीवकः यावत्कथिक इति कथ्यते इति । " मंत्र प्रवम्यया श्रुतेन चेति पदद्वयस्य चतुर्भङ्गी नायते, यथा एकः प्रवज्यथा श्रुसेन न एकपाक्षिकः १, द्वितीयो न प्रवज्यथा किन्तु श्रुतेन २, तृतीयः प्रवज्यया किन्तु न श्रुतेन रे, चतुर्थी न प्रत्रभ्यया न श्रुतेन ४ इति । मत्र प्रथमो भङ्गः शुद्धः, चतुर्थो भङ्गोऽशुद्धः, ततः माथेषु त्रिषु भङ्गेषु एकैकस्याभाषे उत्तरोत्तरों प्राय इति । एकपाचिको द्विविधः एकवाचनाकः एकप्रत्रज्याकश्च तत्र एक वाचनाकः एका समाना परस्परं याचना यस्य स एकत्राचनाकः एकगुरुकुलाधीनः एकप्रवञ्याकः एकस्मिन् कुठे प्रवज्या यस्य स एककुलवर्त्ती उपलक्षणात् एकगच्छवर्ती, सहाध्यायी या गृह्यते इति । गच्छाधिपतिराचार्यों द्विविधो भवति - अभ्युपतपरिकर्मा अभ्युद्यतमरणो वा अम्युथतः उद्युक्तः परिकर्मणि विहारादिपरिकर्मणि यः स अभ्युद्यतपरिकर्माः, द्वितीयः अभ्युद्यतमरणः - अभ्युद्यतः दधुक्तः मरणे मक्तप्रस्था ख्यानादिना असाध्य रोगविशेषेण वा यः स अभ्युद्यतमरणः । एष एकैको द्विविधः गच्छा पेक्षो गच्छनिरपेक्षो वा तत्रैको गच्छव्यवस्थायामपेक्षावान्, अन्यो गच्छव्यवस्थां प्रति निरपेक्षः स्यात् । यो गच्छसापेक्षः स्यात् सः अभ्युद्यतविहारपरिकर्मा वा अभ्युद्यतमरणो वा जीवन्नेव यः कश्चिदेक पाक्षिकः प्रत्रयश्रुताभ्यां भवेत्तं स्वपदे पूर्वमेव स्थापयति येन तदनुरको गच्छ कालगत्तेऽपि तस्मिन्नाचायें परस्पर प्रेमानुभावतो न विनाशमुपैति । यः पुनर्गच्छनिरपेक्षो भवेत्
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy