________________
भाग्यम् ४०२ सू० २१-२२
मेधुनाम्याख्याने तम्निर्णयविधिः ६५ सेविनमभिमन्येत । इत्याकारको यः प्रत्ययो विश्वासः स सर्वेषां भवतु, अस्मादेव कारणात् स्वस्याप्पकृत्यं भणति । एवमुक्ते तस्मिन् आचर्ग कि कुदिन्यास 'नत्य इमाति, ना पुलिय' तत्र ताशपरिस्थितिप्रसले यस्योपरि अभ्याख्यानं तेन दत्तं स समाइयाचार्येण प्रष्टव्यः, कथं प्रष्टव्यः ! इत्याइ-'किं पडिसेवी अपडिसेबी' किं भवान् प्रतिसेवी वा अथवा अप्रतिसेवी ! इति, मवान् मैथुन सेवितवान् वा-अथवा न सेवितवान् ! एवं पृष्टे सति यदि-से प वएज्जा पडिसेवी परिहारपने स च वदेत् प्रतिसेवी सत्यमयं वदति । इत्येवं कथने स साधुः परिहारप्राप्तः परिहारतपोयोग्यो मवति तत्तः तस्मै तदकृत्यप्रतिसेवनजनितपापान्निवरयर्थ परिहारनोमकं तपः प्रायश्चित्तरूपेण दातव्यम् , उपलक्षणमेतत् तस्मात् छेदमूलाऽनवस्थाप्यपाराधितनामकमपि प्रायश्चित्तं यथोचितमकृत्यप्रतिसेक्काय आचार्येण दातव्यमिति भावः । मथ च 'से यचएज्जा णो पडिसेयी णो परिहारपो' स च वदेत् नो प्रतिसेवा, नाहं प्रतिसेवी अभ्याख्यानमात्रमेतत् , इति वदेत् तदा स न परिहारप्राप्तः परिहारनामकतशेभाग न भवति । अथव स्थिते कथं निश्चेतव्यं यदयमकृत्यस्थानं प्रतिसेवितवान् न वा ! तत्राह-"ज से पमाण' इत्यादि, असे पमाणं वयइ से य पमाणाओ घेतव्ये सिया' सः प्रतिसेवी यत् प्रमाण वदति तस्मात प्रमाणात् स ग्रहीतव्यः, स च अभ्याख्यानदाता प्रतिसेवनायाः प्रमाण वदति कथयति, तस्मात् प्रमाणात्गृहीतव्यो नि चेतव्यः स्यात् , तभा प्रतिसेवकस्य कथनानुसारेणैव निश्चयः कर्तव्यः यदयं मैयुनं प्रतिसेवितवान् , यद्वा न प्रतिसेवितवानिति, तत्र यदि प्रमाणाद् एवं निश्चयो जायते यदयं मैथुन प्रतिसेवितवान् तदा तस्मै परिहाराचन्यतमप्रायश्चित्तं यथायोग्य दातव्यम् , यपत्र प्रमाणात् अयमकृत्यस्थानं न प्रतिसेवितवान् इत्याकारको निषेधविषयको निश्चय आचार्यस्य भवेत् तदा तस्मै परिहारादि प्रायश्चित्तं न दातव्यमिति भावः | तवचनादेव सर्वव्यवस्था कर्तव्या भवेदिति । शिष्यः पृच्छति-से फिमाहु मते' अथ किमाहुभदन्त ! अथ कस्मात् कारणात भवान् एवं कथयति यत् तत्कथनानुसारमेव प्रायश्चित्तं दातव्यं न वा दातव्यमिति पत्र किं कारणम् ! माह-सच्चपइण्णा पवहारा' सत्यप्रतिज्ञाः व्यवहाराः, हे शिष्य : व्यवहाराः जिनशासनव्यवहाराः सत्यप्रतिज्ञाः सत्यप्रतिज्ञावन्तस्तीर्थकरैर्दर्शिता इनि सत्यमेव प्रतिज्ञा प्रमाणं ये ते सत्य प्रतिज्ञाः व्यवहाराः सत्यमूलका एवैते जिनशासने प्ररूपिता इति । अत्र कश्चित् शकते-किमर्थ मेकः साधुरम्यस्मिन्नभ्याख्यानमारोपयति ! तत्रेदं कारणं संभवेत्-यः कश्चित् रत्नाधिकः अन्य रत्नाधिकमीर्ण्यया अवमरत्नाधिकं कर्तुमिच्छेत्-यदहं रत्नाघिकोऽस्मि नायं रत्नाधिक इति गर्वण कषायोदयेन वा एवं कुर्यात् । अत्राय भावः सद्भतार्थे ज्ञाते सति यदि तत्प्रतिसेवनं योः सत्य भवेत्तदा दूयोरपि मूलं दीयते | मथालीकमन्याख्यानं तदा योऽन्याययातः स शुद्ध इतरोऽशुद्धः ।