SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ माध्यम् ज० २ ० २१ श्योर्मैथुनाभ्याल्याने निर्णयविधिः ६३ 'पारंचियं भिक्खु' पाराचितं भिक्षु दशमप्रायश्चित्तस्थानप्रातं श्रमणम् 'गिरिभूर्य' गृहीभूतं गृहस्थ लिने वर्तमानं पुनः संयमप्रतिपत्तये गणनायकस्य समीपमागतम् ' कप्पड़' कल्पसे 'तस्स गणावच्छेयगत्सतस्य गणावच्छेदकस्य 'उत्रद्वावित्तए' उपस्थापयितुं पुनः संयमे स्थापयितुं कल्पते इति पूर्वेण सम्बन्धः || सू० १९ ॥ सम्प्रति सूत्रकारः स्वयमेव अनवस्थाप्य -पाराश्चितविषयेऽपवादमाह - 'अणवद्वयं इत्यादि । सूत्रम् - अणबट्टपं भिक्खु पारंचियं वा भिक्खु गिरिभूयं वा अगिरिभूयं बा star तस्स गणात्रच्छेयगस्स उत्रहावित्तए जहा तस्स गणस्स पत्तियं सिया ॥ ० २० ॥ छाया - अमवस्थाप्यं भिक्षु पाराविथतं वा भिक्षु गृहीभूतमगृह भूतं वा कल्पते तस्य गणाचच्छेदकस्योपस्थापयितुम्, यथा तस्य गणस्य प्रत्ययं स्यात् ॥ ० २० ॥ भाष्यम् – 'अणवद्वप' अनवस्थाप्यम् अनवस्थाप्यनामकनवम प्रायश्चित्तस्थानप्राप्तं मिक्षुम्, एवं पाराचितं वा दशमप्रायश्चितस्थानप्राप्तं या भिक्षु 'गिरिभूयं वा' गृहीभूतं वा गृहस्थलिङ्गधारिणं वा 'अगिरिभूयं चा' अगृहीमूतं वा गृहस्थलिङ्गरहितं साधुचेषे एव स्थितं वा 'कप्पड़ तस्स गणात्रच्छेयगस्स' कल्पते तस्य गणावच्छेदकस्य 'उवद्वावित्तए' उपस्थापयितुं पुनरपि संयमे प्रवेशयितुम् । कथं पुनस्तौ उपस्थापनायोग्यौ भवेताम् ? तत्राह - 'जड़ा' इत्यादि । 'जहा तस्स गणस्स पश्चियं सिया' यथा येन प्रकारेण तस्य गणस्य यस्य स उपस्थापनीयो विषते तस्य गणस्य प्रत्ययं प्रतोतिः तद्विषयको विश्वासः स्यात्, तथा कृत्वा कल्पते नान्यथा । अत्र यद् अगृहीमूतस्योपस्थापनं कथितं तद् अपवादविषयकं स्यात् तस्योत्सर्गतः प्रतिषिद्धत्वात् । 1 अयं भावः – नवमप्रायश्चिसस्थानप्राप्तं दशमप्रायश्चित्तस्थानप्राप्तं वा भिक्षु गृहस्थलिङ्गवन्तं कृत्वा, यद्वा-गृहस्थलिङ्गवन्तमकृत्वैव गणनायकस्य कल्पते पुनस्तं संयमे उपस्थापयितुम्, तदत्र कारणमाह-यदि स नवमदशमप्रायश्चित्तापन्नः श्रमणः राज्ञ उपकारी भवेत् तदा राजानुवृच्या तमगृद्दीनमेवोपस्थापयितुं कल्पते । यश स अन्यतैर्थिकैः सह वादे बादलन्धिमान् भवेत् तैः सह वादकरणं साधुवेयेणैवोचितं भवेत्ता तस्य प्रवचनप्रभावकत्वादगृही भूतस्यै वोपस्थापनं कल्पते, इत्यादिप्रवचनप्रभावना रूपकारणैरेवं करणे गणस्य विश्वासो भवेदिति । यद्वाऽन्यदपि कारणं भवेद् यथा - यदि कश्चिदाचार्यो नवमप्रायश्चित्तस्थानं दशमप्रायश्चित्तस्थानं वा समापय गणावच्छेदकसमीपे तत्प्रायश्चित्तार्थं समुपस्थितो मवेत्तस्य गृहस्यलिङ्गदाने तस्त्र शिष्या विवदेयुः यदि ममाचार्य गृहस्थजिंग करिष्यथ तदा समुपता वयमधिकरणमुत्पादविग्यामः एवं करणेऽस्माकमाचार्यस्य प्रायश्वितं लोके प्रकाशितं भविष्यति तेन लोके शङ्का
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy