SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ माभ्यम् उ०२ सू०१-५ साविहरता यादीनां तपोवहनविधिः ५१ सूत्रम्-दो साइम्मिया एगयो विहरति दोवि ते अण्णयरं अकिच्चद्वाणं पडिसेवित्ता आलोएग्जा एगं तत्थ कप्पाग ठावाचा एगे णिव्विसेज्जा बह पचा सेपि णिब्बिसेज्जा ।। सू०२॥ छाया-द्वौ सार्मिको पक्रतो विदरतः द्वापि तौ अन्यतरत् अकृत्यस्थान प्रतिसेव्याऽऽलोचनेसाम्, पकं तत्र फरपस्थितं स्थापयित्वा पको निषिशेत् अथ पचात् सोऽपि निर्षिशेत् ।। ५० २ ॥ भाष्यम्—'दो साइम्मिया' इति । दोसाहम्मिया' दौ साधर्मिको, तत्र द्वौ समानधर्मिणौ एकगल्छीयो दो श्रमणी इत्यर्थः 'एगपओ विरंति' एकतः एकत्र द्वौ मिलित्वा विहरतः तिष्ठतः, तयोर्द्वयोर्मध्ये 'दोवि ते' द्वावपि तो उभावपि 'अण्णपरं' अन्यतरत् अष्टादशपापस्थानेषु किमप्येक, मोहनीयोदयात् 'अकिच्चडाण' अकृत्यस्थानं प्राणातिपातादिकं 'पडिसेबित्ता' प्रतिसेव्य तादृशान्यतराकृत्यस्थानस्य प्रतिसेवनं कृत्वा 'आलोएग्जा' बालोनयेताम् , स्वकीय स्वकीयमपराधमाचादिः पुरतः क्रमशः प्रकटीकुर्याताम् । तत्र यदि द्वावपि श्रमणौ गीता भवेताम् , ततः 'एग तत्थ कप्पागं ठावदत्ता' तत्र तयोर्द्वयोर्मध्यात् एक ये कमायेकं कल्पकं कल्पस्थितमानुपारिहारिकं स्थापयित्वा 'एगे णिज्विसेज्जा' एकः तदन्यः कल्पस्थितादितरः श्रमणो निर्षिशेत् गृहीतपरिहारतपः समापयेत् तयोर्मध्ये एक कल्पस्थित कल्पयित्वा तदन्यः परिहारनामकं तपः कुर्यात् । यश्च कापस्थितः स एव चाऽनुपरिहारिको भवति, सत्र तृतीयादेः साधोरमावात्, से च कल्पस्थित रानुपारिहारिकस्तस्य परिहारतपःप्राप्तस्य तावत्कालं वैयावृत्यं कुर्यात् यावतस्य परिहारतपो न समाप्यते इति । 'अह पच्छा सेवि णिविसेज्जा' मय पश्चात् सोऽपि निर्षिशेत्, अथ तस्य पूर्वप्रतिपन्नस्य परिहारतपःसमाश्यानन्तरं सोऽपि कल्पस्थितोऽपि निर्विशेत् परिहारतपो गृहीत्वा तत्समापयेत् । यः परिहास्तपःकरणाय प्रवृत्तः तस्य परिहारतपःसमाश्यमन्तरं स्वयमपि स्वस्य पापापनोदाय परिहारतपः कुर्यादित्यर्थः । यश्च पूर्व परिहारतपः कृतवान् स कृतपरिहारतपःकर्मा कल्पस्थितो भूत्वा आनुपारिहारिको भवति तेन तस्य वैयावृत्य करणीयं, यावस्पर्यन्तं तस्य परिहारतपसः समाप्तिर्भवेत् तावत्तस्य यावृत्त्यमाचरेत् । तृतीयस्य कस्यचि. दपि श्रमणस्याऽभावे दावे परस्परं क्रमशः तपोवाहको वैयावृत्यकारकश्च भवेदिति भावः । अवार्य विवेकः-यदि पुनई योर्मध्ये एकतरः भगीतार्थो भवेत् तदा शुद्धतपोलपमेव तस्य प्रायश्चित्तं भवेत् न तु परिहारतपः, अगीतार्थत्वेन परिहारतपोयोग्यताया अभावात् । अथ यदि दावपि अगीतार्थावेव भवेताम् तदा द्वाभ्यामपि शुद्रमेव तपः प्रतिपद्यते न तु परिहारतपः, इयोरपि परिहारतपोरूपप्रायश्चित्तस्यायोग्यत्वादिति ।। सू० २ ।।
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy