SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ व्यवहारसूत्रे बहादेशे ग्रामस्य बहिः प्रदेशे, अथवा 'नगरस्स वा' नकरस्य नगरस्य वा न करो गोमहिण्यादीनां विद्यते यत्र तत् नगरं अष्टादश करवर्जितं, तस्य 'निगमस्स वा' निगमस्य वा, तत्र निगमः प्रभूततरत्र णिम्जन निवासः, तस्य वा 'शहाणीए वा' राजधान्या वा तत्र राजाधिष्ठितं नगरं राजधानी, तस्या वा 'खेडस्स वा' खेटस्य वा तत्र पशुप्राकारनिबद्ध खेट, तस्य वा 'फस्स वा' कर्बट्रस्य वा तत्र कर्चेंट झुल्लकनगरम् तस्य वा 'मर्डवस्ल वा' मडम्बस्य, वा तत्र मडम्बः सार्धगञ्युत्यन्तर्गतग्रामान्तररहितः, तस्य वा 'पहणरस वा' अस्य पत्तनस्य वा प नस्य वेतिच्छाया, तत्र पचनं समस्ततस्थाने गिले नगरम् पहनं यत् नौभिरेव गम्यम् उक्तञ्च ¢ पत्तनं शकटैर्गम्य, घोटके नौभिरेव वा । नौभिरेव च यद्म्य, पट्टनं तत्प्रचक्षते || १|| इति ? तादृशस्य पत्तनस्य वा पट्टनस्य वा 'दोणमुहस्ल वा' द्रोणमुखस्य वा तत्र द्रोणमुखं जलस्थलपथोपेतो जननिवासः, तस्य वा 'आसमस्स वा आश्रमस्य वा तत्राश्रमो नाम आश्र यविशेषः तापसादीनां तस्य वा 'संवादस्य वा' संबाधस्य वा, संबाधो जनसंमर्दः यथा यात्रादौ दिग्म्य भागत्य स्थानविशेषे जनानां समावेशः, तस्य वा 'संनिवेसस्स वा' संनिवेश: सेनानिवेशः समागतसार्थवाहादिनिवासस्थानं वा, तस्य बहिः पूर्वोक्तानां ग्रामादीनां बहिः प्रदेशे गत्वा तत्र 'पाणाभिमुहे वा' प्राचीनाऽभिमुखो या पूर्वाऽभिमुखो वा अथवा 'उदीणाभिमु या उदीचीनाऽभिमुखो वा उत्तराभिमुखो वा सन् पूर्वदिगभिमुखः अथवा उत्तरदिगाभिमुखो वा मूत्वेत्यर्थः । अत्र पूर्वोत्तरयोर्दिशोर्ग्रहणं तयोरंवालोचनाया प्रशस्तत्वज्ञापनार्थ, पश्चिमदक्षिणयोदिशोरालोचनान्यामनत्वादिति । तत्र गत्वा किं कुर्यात् तत्राह- 'करकल०' इत्यादि । 'करलपरिग्ाहिय' सिरसावत्तं मत्थए अंजलि कड्ड तत्र करतलायां संहताम्यां हस्ततलाभ्यां प्रकर्षेण गृहीतः स्थापित इति करतलपरिगृहीतस्तम्, शिरसि आवर्त्तते दूरमिव सीमितदेशं गत्वा पुनस्तत्रैव निवर्त्तते स भवतः चक्राकृतिः, तद्वत् यस्य स एव शिरसावर्त्तः तादृशं मस्तके अंजलि कृत्वा स्थापयित्वा एवं एज्जा' एवं वयमाणप्रकारेण वदेत्, तदेव दर्शयति- 'एवइया मे' इत्यादि, 'एवहया मे अवराहा' एतावन्तो ममापराधाः अकृत्यस्थानसेवनरूपाः एतावन्तः सन्ति 'एवइवखुत्तो अहं अवरदो' एताव स्कृत्वः एतावतो वारान् यावदहमपराद्धः अकृत्यस्थान सेवन रूपाऽपराधयुक्तो जातोऽस्मि एवं सविनयमुक्त्वा 'अरहंताणं सिद्धाणं अंतिए' अहर्ता सिद्धानां समीपे तान् साक्षीकृत्येत्यर्थः 'आलोएज्जा' आलोचयेत्, सबै स्वापराधजातं स्ववचसा प्रकटीकुर्यात्, प्रतिक्रामेत्, निदेत, गर्हेत, तथा
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy