SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ भाग्यम् ०१५० ३५ आचार्योपाध्यायाचेकैकाभाषे आलोखनाधिधिः ४ नादिकं कर्तव्यम् ? तबाह– 'जत्थेव' इत्यादि । यदि पुनः सांमोगिक साधर्मिकं न पश्येदालोचनार्थं तदा 'जत्थेव अन्नसमोश्यं साहम्मियं पासेज्जा' यत्रवान्यसांभोगिक साधर्मिक पश्येत् तत्रैव स्थानविशेषे अन्यप्तांभोगिफम् अन्यगद्रीयं स्वसंभोगमर्यादाभि-नं किन्तु साधर्मिकं समानधर्मिक जिनोक्तपञ्चमहानतागधकं पश्येत्, तमपि कथम्भूतं साधर्मिकं तत्राह-बहुस्मुर्य' इत्यादि 'बहुस्सुयं बच्मागर्म' बहुश्रुतं छेदादिप्रायश्चित्तसूत्रापठनपाठन कुशलं बवागमं सूत्रातः भागमज्ञानिनं पश्येत् 'तस्संतिए 'आलोएज्जा.' तस्यान्यसांभोगिकसाधर्मिकस्य सविधे भानो होः राति बद व्यायम् ३ । पा 'नो चेव अन्नसंमोइयं नो चैव अन्यसांभोगिक यदि पुनरन्यसांभोगिक साघर्मिकं बहुश्रुतं बवागमं मो पश्येत् नो लभेत तदा 'जत्थेव सारूवियं पासेज्जा' यत्रैव स्थाने उपाश्रये वा सारूपिकं समान रूपं सरूपं तत्र भवः सारूपिफः तं सारूपिकं स्वसमानघेपम्, स्वसमानालोचनाकरणेच्छुकं वा कश्चिन्मुनि पश्येत् कथम्भूतं सारूपिकम् ! तबाह-'बहुस्सुय' इत्यादि 'बहुस्सुयं बभागमं बहुश्रुत बागमं पूर्वोक्तप्रकारकं पश्येत् 'तम्सतियं आलोएज्जा तस्यामन्तिके आलोचयेत्, परस्परमालोचनां कुर्यात् इत्यादि पूर्ववदिति ? | 'नो व सारूवियं' मो चैव खल सारूपिकं यदि पुनः सारूपिकं बहुश्रुतं बहागर्म नैव खलु पश्येत् नो छमेत तदा 'जत्थेव' यत्रैव स्थाने 'समणोवासगं पच्छाकई पासेज्मा' श्रमणोणसक श्रावक कीदृशम् ! 'पच्छार्ड'- पश्चारकृतं यः पूर्व साघुपर्याये स्थितः बहुश्रतो बहागम आसीत् ततस्तं साधुपर्यायं मुक्या गृहस्थो भवति स पश्चात्कृतः कथ्यते, तं पश्येत् कीदृशम् : 'बहुस्यूयं बभागम' बहुश्रुतं बवागमे "तस्संतिए' तस्यान्तिके, 'आलोपज्जा.' आलोचयेत् आलोचनादि सर्वविधि पूर्वोक्तप्रकारेणैव कुर्यात् ५।। 'नो चेव समगोवासग पच्छाकडं पासेज्जा' यदि पूर्वोक्तं श्रमणोपासके पश्चास्कृतमपि न पश्येत् तदा-'जस्थेव सम्मंभावियाई' यत्रैव खल्ल स्थानविशेषे सम्यग्मावितानि जिनवचनवासित्तान्तःकरणानि 'चेइयाई चैत्यानि चितिस ज्ञाने' इति घातोनिष्पन्न चैत्य, तानि सग्यगमावयुक्ताः गृहस्था इत्यर्थः. येषामन्तःकरणे न रागो न चा स्वपरगुणावगुणविवेकज्ञाः केऽपि गृहस्था भवेयुस्तान् पश्येत, तन्मध्यात् कश्चिदेकं विवेकबुया आलोचनादानकुशल निरीक्षेत, बहुवचनं चात्र तादृशगृहस्थानां बहुत्वात् 'तेसंतियं आलोएज्जा.' तेषामन्तिके समीपे मालोचयेत्, इत्यादिपदानि पूर्ववदेव व्यास्येयानीति ६ । अथ यदि 'नो चेव सम्प्रभावियाई' नैव सम्यग्मावितानि चैत्यानि तादृशान् गृहस्थान् नो पश्येत् तदा-'बहिया गामस्स बा' बहिमिस्य वा ग्रामः इतिवेष्टितो जननियासः, तस्य मामस्य
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy