________________
व्यवहार
क्षेपस्य अयोग्य वात् 'तेसंतियं आलोज्जा ' तेषाम् अन्तके मालोचयेत् तेषामाचायोपाध्या यानामन्तिके समीपे आलोचयेत् आलोचनां कुर्यात आचार्योपाध्यायानां समीपे स्वकृताऽतिचारजातं म्लायता वदनेन वचनद्दारा नतु भावभनया जनान्तरमुखन वा प्रकटीकुर्यात् । 'पडिक मेज्जा' प्रतिकामेत् पापात् प्रत्यावर्तितुं मिथ्यादुष्कृतं दद्यात् 'निदेज्जा' निंद्यात् स्वोपार्जितपापकर्मणः स्वात्मानमेव साक्षीकृष्य निन्दां कुर्यात् 'गरहेज्जा' गर्हेत गुरु साक्षि विनिर्माय स्वतपापकर्मणो जुगुप्सां कुर्यात्, सर्वत्रापि निन्दनं गर्हगं च एतदुभयमपि परमार्थतस्तदेव भवति यदा पुनः ताशकर्मकरणतः सर्वथैव प्रतिनिवर्त्तते तत आइ-'विउद्देज्ना' व्यावचैत तस्माद कृत्यप्रतिसेवनात् सर्वथैव प्रतिनिवृत्तो भवेत् । प्रतिनिवर्तनेऽपि पापकर्म करणतस्ताहशात्यापात् तदा मुच्यते यदा स्वकीयात्मनो विशोधिर्भवति, आत्मनो विशुद्धयभावे प्रतिनिवर्तनमपि निस्थकर्मवेत्याह- 'विसोहेज्जा' विशोधयेदारमानं, पापमलप्रक्षालनेनामानं निर्मलीकुर्यात् । यथा भूमिलुठिताश्व उत्थाय शरीरसंलगरजोऽङ्गानि विध्य पूर्वापररजोनिर्गमेन निर्मलीभवति तथैव भिक्षुः पापरजो विधूय निर्भलीभवेत् , सेयमात्मनो विशुद्धिः कृतस्य पापस्याऽपुनःकरणतायामेष संभवति, अन्यथा कुतकर्मणः पुनःकरणतायामात्मविशुद्धरसंभवात् तत्राह-- 'अकरणयाए अमुटेज्जा' अकरणतया पुनरभ्युत्तिष्टेत्-अकरणतया 'पुनरेवं न करिष्यामौ ति निश्चिस्याऽभ्युत्तिष्ठेत् सावरानो भवेदित्यर्थः । पुनरकरणतया-अभ्युत्थानेऽपि पापादिशोषिः प्रायश्चित्तप्रतिपत्त्यैव भवति, नतु प्रायश्चित्तमन्तरण पापापनोदनम् , अत आह-'अहारिहं तवोकम्म पायपिछत्तं पडिबज्जेज्जा' यथाई तपःकर्म प्रायश्चित्तं प्रतिपधेत, यथाहै यथायोग्यम् पापानुसारि येन पापनिवृत्तिवेतादृशं तपाकर्म, तत्र तपोग्रहणमुपलक्षणं तेन छेदादिके प्रायश्चित्तं पापनाशक कर्म प्रतिपयेत स्वीकुर्यात् । । यदि मामीथा आर्योपाध्याया न लभ्यन्ते तदा किं कुर्यात् । तत्राह
'नो चेत्र' इत्यादि 'नो वेव अप्पणो' नो चैव नैब यदि पुनः आत्मनः स्वगच्छस्य स्वगच्छसेबन्धिनः 'आयरियउज्झाए' आचार्योपाध्याया आसन्न प्रदेश न विद्यन्ते दूरादिदेशव्यवधानतो वा सान् न पश्येत् तदा-'जत्येव संभोइयं साहम्मियं पासेज्जा' यत्रैव सांभोगिक साधर्मि के पश्येत्, आचार्योपाध्यायानामलामे यत्रैव खस स्थानविशेषे उपाश्रये वा सांभोगिकं सामानसामाचारोकं साघर्मिकं पश्येत् , कीदृशगुणसंपन्नं साधर्मिकम् । तत्राह – 'बहुस्सुर्य' इत्यादि । 'बहुस्मुयंबभागम' बहुश्रुतं बवागम, तत्र बहुश्रुतं नामाऽनेकविधछेदादिसूत्रमर्मकुशलम् उद्यतविहारिणं क्रियापात्रं, बड़ागर्म सूत्रतोऽयंतश्च प्रभूतागमज्ञातारं पश्येत्, 'तस्संतियं आलोएग्जा' तस्याऽन्तिके आलोचयेत् इत्यादि यथाहं तपःकर्म प्रायश्चित्त प्रतिपद्येत, इतिपर्यन्तं पूर्ववद् व्याख्येयम् ।
'नो चेव संभोइयं साहम्मियं नो चैव खल नैव यदि खलु सांभोगिक साघर्मिक, यदि पुनः स्वकीय सांभोगिकं साधर्मिक पहुश्रुतं ब्रह्मागर्भ न पश्येत् , तदा फस्य समीपे मालोच