SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ -rniwannamrunaam छाया-भिक्षुश्च गणायकम्य परपावपतिमामुपसंपच खलु विहरे, स चेच्छेत् द्विनीयमपि समेघ गणमुपसंपच खलु विहर्मुम्, नास्ति बलु तस्य तत्प्रत्यायिकः कश्चित् छेदो या परिहारो पा माऽन्यत्र एकया आलोचनया ॥ सू० ३३ ॥ भाष्यम्-'भिक्य य' इति । भिक्खू य' यः कश्चिद् भिक्षुः राजाधुपालवाऽशिवादिकारणात् 'गणाभो अवाम्म' गणात स्वकीयगछात् अपक्रम्य पृथग्भूतो निस्सृत्येत्यर्थः 'परपासंडपडिम उवसंपज्जिना गं' परपापण्डप्रतिमा स्वकीय लिङ्ग परित्यज्य अन्यदीयं परदार्शनिकलिङ्गम् उपसंपच स्वीकृत्य स्खल 'विहरेज्जा विहरेत् यथावसरमुपद्रवकाले परकीय लिङ्ग स्वीकृत्याऽपि अन्तःकरणेन पञ्चमहायतं पालयन् विहरन् ‘से य इच्छेज्जा' स च परित्यक्तस्वकीयवेषो गृहीतपरकीयवेषः, अन्तर्भावित चारित्रः, स यदि 'दोच्चपि' द्वितीयमपि वारं 'तमेव गणं उपसंपज्जिताण' लिङ्गपरिवर्तनकारणे परिसमाप्ते सति तमेव गणं यस्मिन् गणे पूर्वमासीत् तमेव गच्छं पुनरपि उपसंपच पर बाल विह तम दवा- गोत ब्रदा 'नथि म तम्स तप्पतिए' नास्ति खल तस्य कारणवशात् स्वलिङ्ग परित्यज्य परपाषण्डलिई स्वीकृत्य पुनरपि स्वगच्छे समागच्छतः तत्प्रत्ययिकः परपाषण् इप्रतिमाग्रहणनिमित्तक: 'केइ छेए वा परिहारे स' कश्चिच्छेदो वा परिहारो वा, तस्य तन्मूलक छेदनाम परिहारनामक वा प्रायश्चित्तं न भवतीत्यर्थः । तत् किमत्र सर्वथैव प्रायश्चित्ताऽभावः ! तत्राह-नन्नत्य एगाए आलोयणाए' मान्यत्रैकया आलोचनया, आलोचना गुरुसमीपे स्वदोषाणां प्रकटनरूपा, तां विहाय नान्यत् प्रायश्चित्त भवति, इति मालोचनामात्रमेव तस्य प्रायश्चिन भवति | राजाऽशिवाघुपद्रवकारणमाश्रित्य परकीयलिनधारणेनापि तस्य भावचारित्रसद्भावात् । यदि भिक्षुः रागद्वेषादिकारणेन स्वकीयगणादचक्रम्य परपाषण्डलिङ्गम् उपसंपद्य विहरेत्, कपायकारणे परिसमाप्ते सति द्वितीयमपि वारं तमेव गणमुपसंपद्य विहर्नुमिच्छेत्, अथैवं कुर्वतस्तस्य दो वा परिहारो वा प्रायश्चित्तमापद्येत अन्यदपि प्रायश्चिनं भवति रागद्वेपादिकारणतः परकीर्यालङ्गस्य धारणात्, तादृशस्य परकीयलिङ्गप्रतिपत्तौ संयमयतनाया संमवास्वेति विवेकः । अत्रेदं बोध्यम्-भिक्षुः नादृशस्य परपापण्डस्य वेषं गृह्णाति यस्मिन् क्षेत्रे साधयो विचरन्ति तत्रत्यो राजा यस्य परपापण्डस्य मतावलम्बी भवेत् एवं करणे राजा भिक्षु नोपद्रवति । फियत्काल. पर्यन्तं तं लिहं धारयेदिल्याइ-यावत्कालपर्यन्तं तत्र राजाघुपद्रवो नोपशाम्यति तावत्कालपर्यन्तं तल्लिङ्गधारणमावश्यकम् । तथा-उपशान्तेऽपि राजाधुपद्रवे याक्काल साधर्मिकाणां सार्थों न मिलति तायकालं तेनैव लिन कालक्षेपं कुर्यात्, तत्क्षेत्रस्य सहसा त्यक्तुमशक्यत्वात् । कथिवं च भगवतीसूत्रस्य पञ्चविंशतितमे शतके संजयाधिकारे--'गृहस्थलिङ्गेऽन्यलिने वा छेदोपस्थापनीय चारित्रं लभ्यते' इति । कारणमाधिस्य लिङ्ग मुक्तवान् किन्तु यस्य चारित्रं निर्दोष वर्तते
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy