________________
गृहत्कल्पसूचे वणादिषु किञ्चिद् एकवारम् आलेपनं कत्तुं विलेपयितु-विशेषेण लेपयितुं अनेकवारम् न कल्पते इति सम्बन्धः । किं सर्वथैव न कल्पते ! इत्याह–'नन्नत्थ' इत्यादि, नान्यत्र गाढागाद्वेभ्यो रोगातङ्केभ्यः गाढागाढेभ्यः अत्यन्तप्रगाढेभ्यः भयङ्करभ्यः रोगातकम्यः सादिविपत्रणसघोघातिक्षुद्रणप्रमृतिप्राणघातकरोगरूपातङ्केभ्यः अन्यत्र न कल्पते, पूर्वोक्तकारणे कल्पते इति भावः ।। सू. ८ ॥
पूर्व परिवासितालेपनेनाऽऽलेपननिषेधः प्रतिपादितः, तत्प्रसङ्गात् सम्प्रति परिवासिततैलादिना गात्राभ्यङ्गनम्रक्षणनिषेधं प्रतिपादयितुमाह-नो कप्पई' इति ।
सूत्रम् –नो कप्पड़ निग्गंथाण का निगंयोण या परिवासिएणं नेल्लेण वा घरण वा णवणीएण वा बसाए वा गायाई अम्मगिसए या मक्खिसए वा नन्नस्थ गाटागाडेहि रोगायंकेहिं । सू० ४९॥
छाया - मो कल्पते निर्घन्धानां वा निन्थीनां वा परिवासितेन तैलेन पा घृतेन घा नवनीतेन वा वसया घा गाणि अभ्यनितु वा नक्षितु वा, नान्यत्र गाढागाहेभ्यः रोगातङ्केभ्यः ॥ सू० ४९ ।।
चूणी-'नो कप्पइ' इति । नो कल्पते निम्रन्थानां का निर्ग्रन्थीनां वा परिवासितेनप्रथमत्रहरानीतचतुर्थप्रहरमानेन तैलेन वा-तिलसर्पपादिजन्यस्निग्धद्रवपदार्थजातेन, घृतेन वा प्रसिद्धन, नवनीतेन वा-म्रक्षणेन 'मक्खन' इति भाषाप्रसिधेन, वसया वा स्निग्धरसविशेषेण वा मात्राणि हस्तपादमुखाथङ्गानि अभ्यजितुं वा- प्रचुरतैलादिना उद्धर्तयितुम् , म्रक्षितुं वा स्वल्पेन तैलादिना म्रक्षण कत्त वा न कल्पते इति पूर्वेण सम्बन्धः । यद्येवं परिवासितेन तैलादिना गात्राणामभ्यङ्गनं प्रक्षां च न कल्पते तहिं अपरिवासितेन तत्तत्प्रहरानीतेन तत्तत्प्रहरेऽभ्यतनं म्रक्षणं च निम्रन्थनिम्रन्थीनां कापते, इत्यायातम् तत्राह--परिवासितेन अपरिवासितेन वा तैलादिना मुनीनां गात्राभ्यङ्गनं न कल्पते, तस्य शरीरविभूषासूचकत्वात्, शरीरविभूषाया भगवता निषिद्धत्वाच्च, उक्तं च"........कि विभूसाए कारणं" इति दशवैकालिसूत्रोक्तभगवद चनात् निर्घन्धनिर्गन्धीनां तैलाद्यभ्यतनं न कल्पते । अथ च तेलाद्यभ्यङ्गने संयमविराधना आत्मविराघना चापि संभवेत्, तत्र संयमविराधना अभ्यजितक्षिते गात्रे सचित्तरजो लगति, तदगन्धेन च पिपीलिकादिवसप्राणिनो लगन्ति तेषां विराधनेन संयमविराधना भवेत् , पुनश्च तैलादिना चीवराणि मलिनीभवन्ति, तेषां धावनेऽधावने वा द्विधापि दोषाः समापतन्ति, यथा-यदि धाव्यन्ते तदा प्राणिनामुत्प्लावना भवेत् उपकरणशरीरयोर्बकुशत्वं भवति । यदि न धाव्यन्ते तदा निशिभक्तदोषापत्तिर्भवेत् । अभ्यङ्गितम्रक्षिते शरीर पादयोधूलिस लगतु' इति बुद्धया पादौ वनादिना पिनाति तेन