SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ चूर्णि भाग्यावरी ०५ सू० ४७-४९ पर्युषिताद्वारादिनिषेधः १३९ चूर्णी - 'नो कप्पड़' इति । नो कल्पते निर्मन्थानां वा निर्ग्रन्थीनां वा परिवासितम् संगृहीतं प्रथमप्रहरे आनीतं चतुर्थप्रहरप्राप्त भोजनजातम् अशनादिचतुर्विधं यावत्-न्यूनान्यूनम् तत् किंयदिव्याह- 'तय पमाणमेत्तं वा' इति स्वक्प्रमाणमात्रमपि तिलतुषत्रिभागमात्रमपि एतच्चाशनस्य घटते । भूतिप्रमाणमात्रमषि, भूतिः -: :- भस्म भूतिशब्देन भस्मचप्पुटिका गृश्यते तेन भूतिचप्पुटिकामात्रमपि इत्यर्थो बोध्यः संयोजित हुएतर्जनीभ्यां गृहीतं द्रव्यं मूर्तिप्रमाणमात्र कथ्यते तच्च सक्तुकादीनां शुष्कचूर्णद्रव्यादीनां च घटते । तोयबिन्दुप्रमाणमात्रमपि पानकद्रव्यस्य विन्दुप्रमितमपि परिवासितं प्रथम प्रहरस्थापितस्य चतुर्थ प्रहरः प्राप्तः, तादृशम् आहारम् - किमपि भोज्यपेयपदार्थ जातम् आहर्तुम् भोक्तुं न कन्पते इति । यद्वा परिवासितं रजन्यां स्थापितं पूर्वोक्तप्रमाणमात्रमपि आहारं मोक्तुं न कल्पते । रजन्यां स्थापितवस्तुमा मुनीनां परिभोगो न कल्पते, तस्य सन्निधिसंचयदोषापत्तेः सन्निधिसंचये साधुत्वमपि नश्याते, उक्तञ्च दशने का लिकसूत्रे षष्ठाध्ययनें— "लोहस्सेसणुफा से मन्ने अन्नयरामवि । + जे सिया संनिहिकामे, गिद्दी पचइए न से ॥ गा० १९ ॥ लोभस्य पुत्र अनुस्पर्शः मन्ये अन्यतरोऽपि । - " यः स्यात् संनिधिक्रामः गृही प्रब्रजितो न सः ॥ गा० १९ ॥ इतिच्छाया ॥ संक्षेपार्थः - 'मन्ये' इति भगवद्वाक्यम्, मन्ये अहं निश्चिनोमि अन्यतरोऽपि बहूनां मध्ये एकः एषः लोभस्य अनुस्पर्शः प्रभावः, लोभस्य बहूनां प्रभावाणां मध्ये एष पूर्वोक्तः संनिधिरूप एकः प्रभावोऽस्ति एवमहं मन्ये, अतः यः संनिधिकामः संनिविवाञ्चकः स्यात् सः गृही-गृहस्थ एव मन्तव्यः न तु सः प्रत्रजितः - साधुरिति । इत्येवं भगवद्वचनात् परिवासितमाहारजातं निर्मन्थनिर्मन्धीनां भोक्तुं न कल्पते इति भावः । किं सर्वधा न कल्पते इत्यपवादमाह – 'नन्नत्थ' इत्यादि, नान्यत्र - अन्यत्र न केभ्यः ! इत्याह- गाढागादेभ्यो रोगातवेभ्यः गाढागाढरोगातङ्कान् विहाय, अन्यत्र न कल्पते इत्यर्थः ॥ सू०४७॥ पूर्वं परिवासिताहारनिपेधसूत्रं प्रोक्तम्, सम्प्रति परिवासितालेपननिपेधसूत्रं प्रतिपादयति'नो कप्प' इत्यादि । सूत्रम् - नो कप्पर निधाण वा निग्गंधीण वा परिवासिणं आठेवण जाएणं आलिंपित्तए वा बिलिंपित्तए वा, नन्नत्थ गाडागाडेहिं रोगार्थ केहिं ।। ० ४८ ॥ छाया—नो कल्पते निर्मन्थानां वा निर्प्रन्थीनां या परिवासितेन आहेपनजातेन आलेपयितुं वा विलेपयितुं वा नान्यत्र गाढागाडेभ्यः रोगातङ्केभ्यः | ०४८ ॥ चूर्णी 'नो कप्पड़' इति । नो कल्पते निर्मन्थानां वा निर्ग्रन्थीनां वा परिवासितेनप्रथमप्रहरगृहीतचतुर्थमद्रप्रासेन आलेपन जातेन केनापि लोधादिनिर्मितालेपनेन बालेपयितुं
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy