________________
पूर्णिमाम्यापधुरी उ० ५ सू० प्राणादिपतिताहारकरणाकरणविधिः १२७ दिजीवं पूर्वमेव प्रथममेव लावा हस्तादिना गृहीत्वा प्रतिलान्य प्रतिलेख्य सर्वथैव अपनीयापनीय पात्रमध्याद् निस्सार्थ २, ततः तदनन्तरं संयत एवं यतनया भुनोत वा पिवेद वा । यदि पुनः तच्च प्राणादि-दीन्द्रियादिजीवं 'नो संचाएई' इति नो शकोति विवेतं निस्सारयितुम् वा पृथकर्तुम् , विशोधयितुं वा विशेषतो दूरीकन यदि न शक्नोति तदा तत् द्वीन्द्रियादि. युक्तं भक्तपानं नो मात्मना स्वयं भुनीत नो वा अन्येभ्यः श्रमणादिभ्यो दद्यात् , तहिं कि कुर्यात् ! इत्याह--तद् भक्तपानम् एकान्ते विजने बहुप्रासुके अत्यन्तप्राशुके अवश्यायोतिलादि. रहिते स्थाने प्रत्युपेत्य चक्षुषा सम्यग् निरीक्ष्य, प्रमृन्य रजोहरणेन प्रमार्जनं कृत्वा परिष्ठापयितव्यं स्यात् , तस्य प्राणादिमिश्रितभक्तपानस्य परिठापने कर्त्तव्यं न तु स्वयं भोक्तव्य नाप्यन्येभ्यो वा दातव्यमिति भावः ।। सू० ११॥
पूर्वमाहारसूत्रे प्राणपदेन साना, नीजपदेन वनस्पतिकायानां, रजोग्रहणेन पृथियाग्निकायानां, चायोः सर्वत्रान्तर्गतत्वेन वायुकायानां च प्रहण कृतमिति कायपञ्चकमुक्तम् , सम्प्रति मत्र सूत्रे षष्ठम कायमधिकृत्य भोजनावाध प्रतिपादयात-नियम्स य' इत्यादि ।
सूत्रम्-निग्गंथस्स य गाहावाकुलं पिंडवायपडियाए अणुप्पविट्टम्स अंतो पडिग्गहंसि दगे वा दगरए वा दगफुसिए वा परियावज्जेज्जा, से य उसिणे भोयण जाए भोत्तब्बे सिया, से य सीए भोयणजाए तं नो अप्पणा जिज्जा नो अन्नेसिं दावए, एगंने बहुफामृप थंडिले परिवेयब्बे सिया ॥ २०१२॥
छापा-निन्धस्य च गाथापतिकुल पिण्डपात प्रत्यग्रेन अनुमविप्रस्य मन्ता प्रतिग्रहे वकं या दकरजो वा दकपद् वा पर्यापसेत् तच्च उष्ण भोमनजानं भोक्तव्यं स्यात् , अथ च शीतं भोजनजातं तत नो आत्मना भुजीत, नो अन्येभ्यो दद्यात् पकान्ते बहुप्रासुके स्थण्डिले परिष्टापयितथ्यं स्यात् ॥ सू० १२ ।।
चूर्णी-'निग्गंथस्स य' इति । निग्रन्थस्य च गाथापतिकुल पिण्डपातप्रत्ययेन अनुप्रविष्टस्य अन्तः प्रतिग्रहे पात्राभ्यन्तरे दक वा अकायसमूहरूपम् , दकरजो वा उदकविन्दुर्वादक्रपृषत्-उदकशीकरो जलकणो वा पर्यापतेत् , तच पात्रस्थितं भोजनजातं यदि उम्णं भवेत् तदा तद् भोजनजातं श्रमणस्य भोक्तव्यं भोजनयोग्यं स्यात् , श्रमणेन तद् भोक्तव्यम् , उष्णपतितदकादेः शस्त्रपरिणतत्वेनाचित्तत्वसद्भावात् । तदपि भोजनजातं यदि शीतं भवेत् तदा तद भोजनजात पतितदकादेः शस्त्राऽपरिणतत्वेन सचिनत्वसझावात नो आमना स्वयं भुञ्जीत नापि च तद् अन्येभ्यो दद्यात् अपितु तद् भोजनजातम् एकान्ते बहुप्रामुके स्थण्डिले परिष्ठापयितव्यं स्यादिति । अत्र दक-दकरजःप्रभृतीनां परिमाणकृतो भेदो बोध्यः, तथाहि-दकपदेन प्रभूता कायरूपमुदकं गृह्यते, दकरजःपदेन उदकविन्दुरुष्यते, दकपत्पदेन पुन: पानीयेऽन्यन प्रक्षिप्यमाणे वायुप्रेरितास्तत्रागत्य प्रपतन्तो जलकणाः प्रतिगृह्यन्ते इति विवेकः ॥ मु०१२॥