________________
१२२
Ashra
**AMMA
प्रवकल्पस्ने पूर्व मैथुनप्रतिसेवनप्राप्तस्य प्रायश्चित्तं प्रोक्तम् , तत्प्रायश्चित्ते न्यूनाधिकाऽऽरोपणायां दीयमानायां निर्मन्थोऽधिकरणं कृत्वाऽन्यं गणं प्रविशेत्तदा तैरन्यगास्थविरैः किं कर्त्तव्यमिति तविधिमाह-'भिक्खू य' इत्यादि।
सूत्रम्-भिक्खू य अहिंगरणं कट्टु नं अहिंगरणं अविओसवित्ता इच्छिज्जा अन्नं गणं उत्रसंपज्जिचा पं विहरित्तए, कप्पड़ तस्स पंचराइंदियं छेय कटु परिनिन्दविय परिनिव्वविय दोच्चपि तमेव गणं पडिणिज्जाएयचे सिया जहा वा तस्स गणस्स पसियं सिया ॥ सू० ५ ॥
__ छाया- भिक्षुश्च अधिकरणं कृत्वा तदधिकरणम् अव्यवशमय्य इच्छेत् अन्य गणम् उपसंपध विहर्तुम् , कल्पते तस्य पञ्चरात्रिन्दिवं छेदं कृत्वा परिनिर्वान्य परिनिर्वाप्य द्वितीयमपि तमेव गणं पष्टिमिर्यातव्यः स्यात् यथा वा तस्य गणस्य प्रीतिकं (प्रत्यायिक) स्यात् ॥ सू० ५ ॥
चूर्णी-'भिक्खू य' इति । भिक्षुश्च श्रमणः अधिकरणम्-प्रायश्चित्तदाने न्यूनाधिकतायां कलहं कृत्वा, तद् अधिकरणम् अन्यवशमग्य क्षमापनादिना शान्त चाकल्या इच्छत् अन्य गणं गणान्तरम् उपसंपद्य-स्वीकृत्य विहर्तुम् वाञ्छेत् अन्य गणं प्रविशेदिति भावः, एवं स्थितौ कल्पते अन्यगणस्थविराणां तस्य गच्छान्तरादागतस्य भिक्षोः पञ्चरात्रिन्दिवम्-पञ्चाहोरात्रके छेदं कृत्वाछेदनामकम् प्रायश्चित्तं दत्त्वा परिनिर्वाथ्य परिनिर्वाप्य क्रोधादिकपायानलसंत तं मृदुमधुरोपदेशवचनसलिलसेचनेन सल्कषायानलं भूयो-भूयो विध्यापयित्वा तं सर्वथा शोतलं संपाद्य द्वितीयमपि द्वितीयवारमपि पुनरपि तमेव गणं यस्माद् गणाद आगतस्तमेव तदीयगणं अनि स श्रमणः परिनिर्यातल्यः प्रापयितव्यः नेतन्यः स्यात् । किमर्थमित्याह-यथा वा-येन कारणेन तस्य यस्माद् गच्छाद निर्गतस्तस्य तदीयगच्छस्य 'पत्तिय' प्रीतिकं प्रसन्नता, प्रत्यायिकं वा प्रत्ययो विश्वासः तदेव प्रत्यायकं वैश्वासिकं वस्तु स्थात् तथा विधेयमिति भावः ॥ सू० ५ ।।
पूर्वसूत्रे अधिकरणस्य प्ररूपित वेन तदधिकरणं कृत्याऽनुपशमं प्रात: अमणो गच्छान्तरं गच्छन् कश्चिदुपशमितः पुनस्तमेव गलं प्रत्यागच्छन् मार्गे संस्तरणेऽसंस्तरणे वा कदाचिद माहार गृनौयादतो रात्रिभोजननिषेधक सूत्रचतुष्टयं व्याख्यातुं तावत् प्रथम सूत्रं व्याचष्टे...'भिक्खू य' इत्यादि ।
___ सूत्रम्-भिक्खू य उग्गयविनिए अणत्यमियसंकप्पे संथडिए णिन्वितिगिच्छे असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहित्ता आहारं आहारेमाणे अह पच्छा जाणिज्जा अणुग्गए सुरिए, अत्यमिए वा जं च आसयंसि जं च पाणिसि जं च पडिग्गहे विन्चिमाणे वा विसोहेमाणे वा नो अइक्कमइ, तं अप्पणा