SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ चूर्णिमाल्यापरी उ० ५ ० २-५ निर्ग्रन्थनिन्थीनां देवदेषीकृतोपसर्गवर्णनम् १२१ चूर्णी—'देवे य पुरिसरूवं' इति । देवश्च तृणादिमयोपाश्रये निवसन् कश्चिदेवो न्यन्तरादिः पुरुषरूप-रमणीयपुरुषाकृति विकुळ स्वविकुर्वणाशक्त्या निष्पाप नियन्थी तत्रोपाध्ये वसन्ती साध्वी प्रतिगृह्णीयात् स्वशरीरबाहादिना समालिङ्गत् तच्च प्रतिप्रहणम्- पुरुषालिझन यदि निर्गन्थी स्वादयेत् -'मुखदोऽयं पुरुपशरीरस्पर्शः' इत्येवमनुमोदयेत् तदा सा निग्रन्थी मैथुनप्रतिसेवनप्राप्ता अनासेवितमैथुनाऽपि समापन्नमैथुनसेवनदोषा सतो मापद्यते-प्राप्नोति चातुर्मासिक भनुपातिकम् चतुर्गुरुकरूपं प्रायश्चित्तम् निम्रन्थीनां परिहारतपो न भवतीति कृत्वा 'परिहारहाण' इतिपदं निम्रन्थीसूत्रे न प्रोक्तमिति ।। सू० २ ॥ पूर्व निम्रन्थीमाश्रित्य पुरुपरूपेण देवकृतोपसों वर्णितः, सम्प्रति निन्धमाश्रित्य स्त्रीरूपेण देवीकृतोपसर्ग प्रतिपादयितुमाह-'देवी य इत्थिरूवं' इत्यादि । मूत्रम्-देवी य इस्थि विउव्यित्ता निग्गय पडिग्गाहिज्जा, तं च निग्गये साइज्जेज्जा, मेहुणपडिसेवणपत्ते आज्जइ चाउम्मासियं परिहारहाणं अणुग्याइयं ॥ सू० ॥ ३॥ छाया-देवी च स्त्रीरूपं विकुऱ्या निग्रन्थं प्रतिगृतीयात् , तच निन्यः स्वावयेत् , मैथुनप्रतिसेवनप्राप्तः आपद्यते चातुर्मासिक परिद्वारस्थानम् अनुदातिकम् ॥सू० ।। चूर्णी-'देवी य इस्विरूवं' इति । देवी च स्त्रीमपं-ललितस्त्रीरूपं विकुर्य स्ववेक्रियशक्त्या संपाद्य निर्गन्धं प्रतिगृह्णीयात् स्वशरीरबाहादिना आलिङ्गेत् , तच्च प्रतिग्रहणं स्त्रीशरीरालिङ्गन स्वादयेत् - 'मनोमोदजनकोऽयं स्त्रीस्पर्शः' इत्येवमनुमोदयेत् तदा स निम्न्यः मधुन. प्रतिसेवनप्राप्तः-अनासेवितमैथुनोऽपि मैथुनसेवनजन्यदोषसंपन्नः सन् आपद्यते-प्राप्नोति चातुर्मासिक परिहारस्थानम् अनुद्घातिकम्-चतुर्गुरुरूपं प्रायश्चित्तम् ॥ सू० ॥ ३ ॥ पूर्व निर्घन्धमाश्रिय स्त्रीरूपेण देवीकृतोपसर्गों वर्णितः, सम्प्रति निर्ग्रन्थीमाश्रित्य पुरुष. रूपेग देवीकृतोपसर्ग प्रतिपादयितुमाह-'देवी य पुरिसरुवं' इत्यादि । सूत्रम्--देवी य पुरिसरूवं बिउब्वित्ता निग्गथि पडिग्गाहिज्जा, तं च निम्मंथी साइज्जेज्जा, मेहुणपडिसेवणपत्ता आवाइ चाउम्मासिथं अणुग्पाइयं ॥ सू० ४॥ छाया देवी च पुरुषरूपं विकुर्व्य निर्ग्रन्थी प्रतिगृलीयात् तश निर्ग्रन्थी स्वादयेन् , मैथुनप्रतिसेवनप्राप्ता आपद्यते चातुर्मासिकं अनुद्घातिकम् ॥ ० ४॥ चूर्णी-देवी य पुरिसरुवं' इति । देवी च पुरुषरूपं पुरुषाकृति विकुर्त्य स्ववैक्रियशस्त्या मवयौवनसंपन्नां संपाद्य निर्गन्धी तत्रोपाश्रयस्थितां साध्वी प्रतिगृह्णीयात् स्वशरीरमुजादिना समालिलेत, तश्च प्रतिमहणं समालिङ्गनं निग्रन्थी साची स्वादयेत्-'मुखजनकोऽयं पुरुषस्पर्शः' इत्येवमनुमोदयेत् तदा सा मैथुनप्रतिसेवनप्राप्ता-अनासेवितमैथुनाऽपि मैथुनसेवनजन्यदोषसंपन्ना सती आपद्यतेप्रामोति चातुर्मासिकम् अनुद्घातिकं चतुर्गुरकरूपं प्रायश्चित्तम् ।। सू० ४ ॥
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy