________________
पञ्चमोद्देशक: प्रारभ्यतेव्याख्यातश्चतुओं द्देशकः, सम्प्रति पञ्चमः प्रारभ्यते, तत्र चतुर्थो देशकान्तिमसूत्रेण पञ्चमोदेशकादिसूत्रेण कः सम्बन्धः ! इत्यत्राह भाष्यकार:-'तणमाइ०' इत्यादि । भाष्यम्--तणमाइवसहिवासे, विही निसेहो य अतिमे बुनो ।
मोड़ जइ तत्थ देवो, देवडियारोऽय भणियच्चो ॥ १ ॥ छाया-सुणादिवसतिघासे, विधिनिषेधच अन्तिमे प्रोक्तः ।
भवति यदि तत्र देवः, देवाधिकारोऽत्र भणितव्यः ॥ १ ॥ अवचूरी-'तणमाई' इति । अन्तिम चतुथीद्देशकस्यान्तिमे भागे सूत्रचतुष्टये तृणादिवसतिवासे तृणादिमयोपाश्रयवासे विधिनिषेघश्च प्रोक्तः । तत्र तादृश्यां वसतो यदि देवः गुह्यकादिदेवो देवी वा भवति-वसति मतः अत्र पञ्चमोदेशकस्यादिमे सूत्रचतुष्टये देवाधिकारों भणितव्यः कथयितव्यो भवतीति ॥ १॥
भनेन सम्बन्धेन सम्प्रति तृणादिमयवसतिवासे कदाचित्-देवदेवीनिवासप्रसझात् निर्ग्रन्थमधिकृत्य देवकृतोपसर्गावषयकमिदमादिर्भ सूत्रमाह-'देवे य इत्थिरूव' इत्यादि ।
मृत्रम्-देवे य इत्थिरूर्व विउवित्ता निग्गंथं परिग्गाहिज्जा, तं च निगंपे साइज्जेज्जा, मेहुणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारहाणं अणुग्याइयं ॥ सू०१॥
छाया-देवश्च स्त्रीरूपं विकुर्य्य निर्घन्ध प्रतिरकीयात् , तब निर्ग्रन्थः स्वादयेत् मैथुनप्रतिसेवनप्राप्त आपयते चातुर्मासिकं परिहारस्थानम् अनुद्धातिकम् ॥२०१॥
___ चूर्णी-'देवे य' इति । तृणादिमयोपाश्रये वर्तमानः कश्चित् देवः-व्यन्तरादिः स्त्रीरूप-रमणीयस्त्रीरूपं विकुळ स्वस्य विकुर्वणाशक्त्या निष्पाद्य यदि निम्रन्थं-तत्रस्थितं साधु प्रतिगृह्णीयात् स्वशरीरभुजादिभिरालिङ्गेत् तच्च प्रतिग्रहणम्-स्त्र्यालिङ्गनं यदि निम्रन्थः श्रमण: अनुमोदयेत् 'सुन्दरमिदं ललनालिङ्गनम्' इत्येवम् अनुमोदयेत् तदा स निग्रन्थः मैथुनप्रतिसेवनप्रातः भनासेवितमैथुनोऽपि मैथुनसेवनदोपापन्नः सन् आपद्यते-प्राप्नोति, किमित्याह-चातुमासिकं परिहारस्थानम् अनुद्घातिक चतुर्गुरुकं प्रायश्चित्तम् || सू० १ ॥
पूर्व निग्रन्थमाश्रिय स्त्रीरूपेण देवकृतोपसर्गः प्रतिपादितः, सम्प्रति निम्रन्थीमाश्रित्य पुरुषरूपेण देवकृतोपसर्ग प्रतिपादयितुमाह-'देवे य पुरिसरुवं' इत्यादि ।
सूत्रम्-देवे य पुरिसरूवं बिउन्चित्ता निग्गथि पडिग्गाहिज्जा, तं च निग्गंथी साइज्जेज्जा मेहुणपडिसेवणपत्ता आवज्जइ चाउम्मासियं अणुग्याइयं ।। सू०२ ।।
छाया-देवश्च पुरुषरूप विकुळ निर्ग्रन्थों प्रतिगृक्षीयात् , तच्च निम्रन्थो स्वादयेत् मैथुनप्रतिसेवनप्राप्ता आपचवे चातुर्मासिकं अनुवातिकम् ।। सू० २ ।।।