SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ११४ कम्प कल्पते तस्य भिक्षोर्निमित्तमाचार्योपाध्यायस्य अशनं वा पानं वा स्वायं वा स्वार्थ वा दाई बा एकवारं वितरीतुम्, अनुप्रदातुं वा पुनः पुनर्वितरीतुं कल्पते इति पूर्वेण सम्बन्धः ॥ सू० ३१ ॥ ननु स श्रमणः 'प्रमादो न कर्तव्यः' इति भगवदुपदेशेन संयममार्गे विचरन्नपि कथं परिहारकत्वं प्राप्तः ! इत्यत्राह भाग्यकार:- 'जड' इत्यादि । भाग्यम् - जब कंटगाइकिरणे, खरुणं तह संजमे जयंतस्स । छलणालोयणमवसं, ठवणं जुत्ते य वोसग्गो ॥ ३ ॥ छाया - यथा कण्टकाकीर्णे स्खलनं तथा संयमे यतमानस्य । छलनाऽऽलोचनमवश्यं स्थापनं युक्ते व व्युत्सर्गः ॥ ३ ॥ अत्रचूरी - 'जह कंटगाइकिणे' इति । यथा कण्टकाद्याकीर्णे मार्गे गच्छत उपयुक्तस्यापि कण्टको लगति, आदिशब्दात् दिपमे वा पथि यथा गच्छन्नुपयुक्तोऽपि कदाचित् प्रस्खरसि कृत परिश्रमोऽपि यथा नदीप्रवाइयेगेन देशान्तरं प्राप्यते, सुशिक्षितोऽपि यथा कदाचित् खड्गेन तो भवति तथा कण्टकादिस्थानीये संयमेऽतिगहनोत्पादनैषणारूपे जानादिरूपे वा यतमानस्यापि कस्यचित् श्रमणस्थ 'अवर्स' अवशम् अवश्यं वा यथास्यात्तथा छलना भवत्येव, छलितश्च श्रमणोऽवश्यमालोचनां कुर्यात् । ततश्च संहननागमादिगुणैयुक्ताय श्रमणाय स्थापनं परिहारतपः प्रायश्चितदानं कर्तव्यम्, तत्र च युक्ते उचिते प्रशस्ते द्रव्यक्षेत्रकालभावे तस्य श्रमणस्य निर्विघ्नतपःकर्मपरिपूर्तये व्युत्सर्गः कर्त्तव्यः, तन्निमित्तमाचार्यादयः कायोत्सर्गं कुर्युः, कायोत्सर्गे आचार्यादय एव वदेयुः-- "एस्स साहुस्स निवसग्गनिमित्तं ठामि काउस्सी जानबोसिरामि" इति । एतस्य साधोर्निरुपसर्गनिमित्तं तिष्ठामि (करोमि ) कायोत्सर्ग यावत् व्युत्सृजामि, इति च्छाया, तदनन्तरं चतुर्विंशतिस्तवमनुप्रेक्ष्य मनसि चतुर्वारमनुचिन्त्य - 'नमो अरिहंताणं' इति प्रकटं पठित्वा चतुर्विंशतिस्तवं मुखेनोच्चार्य वदति यत्-मयं तावत् श्रमण आत्मविशुद्धिकारकः परिहारतपः प्रतिपद्यते तस्माद् अथप्रभृति भयं न किञ्चिद् युष्मान् वक्ष्यति यथा- परिहारकः साधुभिः सह सूत्रार्थयोः शरीरवृत्तान्तस्य वा प्रतिप्रच्छनं परिपृच्छादिकं संभाषणरूपमालपनं चन्दनकं J न करिष्यतीति, भवन्तोऽपि एनं मा शुत्रन्तु, श्रमणा अनेन परिहारकेण सह संभाषणं न कुर्युः । एवमन्येष्वपि कार्येषु विज्ञेयम्, यथा- पूर्वाभीतश्रुतपरिवर्तनं, फालग्रहणनिमित्तमुत्थापनम् रात्रौ शयनादुत्थाय वन्दनकम् म्लेष्म -कायिकी - संज्ञाभूमि मात्रकाणां समर्पणं वनादेरुपकरणस्य प्रत्युपेक्षणम्, भिक्षार्थं विचारादौ च गमनं कुर्वतः संघाटकरूपसाधुद्वयेन सह मिलनम् भक्तस्य पानस्य वा दानम्, एकमण्डल्यां वा संभूय भोजनं चेत्यादि तस्य परिहारकस्य भवद्भिर्न कर्त्तव्यम् । इत्थं तावदात्मार्थं चिन्तयतोऽस्य ध्यानस्य परिहारतपसश्च व्याघातो भवद्भिर्न विधातत्र्य इति ॥ ३ ॥
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy