SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ चूर्णिमा यायचूरी उ० ४ ० २६-२७ भिक्षोरन्याचार्योपाध्यायस्वीकरणविधिः १०७ पूर्व भिक्षुप्रभृतीनां संभोगनिमित्तं गणान्तरगमनं प्ररूपितम् , सम्प्रति भिक्षोरव अन्यमाचार्यो पाध्यायं कर्तुमिच्छुकस्य विधिमाइ-'भिक्खू य 'इत्यादि । मूलम् --भिक्खू य इच्छेज्जा अन्नं आयरियउचायं उदिसावित्तए, णो से कापइ अणापुच्छित्ता आयरियं वा जाय गणावच्छेयर्ग वा अण्णं आयरियउवायं उदिसावित्तए, कप्पइ से आपुच्छित्ता आयरियं वा जाव गणावच्छेयगं वा अण्ण आयरियउवमाय उदिसावित्तए, ते य से वियरेज्जा एवं से कप्पइ अण्णं आयरियउवअसायं उदिसावित्तए, ते य से नो बियरेज्जा एवं से नो कप्पइ अण्णं आयरिय उज्ज्ञाय उदिसावित्तए, नो से कप्पइ तेसिं कारणं अदीविता अपणं आयरिपउवज्यायं उदिसावित्तए, कप्पइ से तेसिं कारणं दीवित्ता अण्णं आयरियउपज्झायं उहिसावित्तए ॥ सू०२६॥ छाया-मिक्षुश्च इच्छेत् अन्यम् आचार्योपाध्यायम् उद्देशयितुं नो तस्य कल्पते अनापृच्छय आचार्य वा यावद गणावच्छेदकं या अन्यम् प्राचार्योपाध्यायं उद्देशयितुम, करपते तस्य आपृच्छय आचार्य घा यावत् गणावच्छेदकं वा अन्यम् आचार्योपाध्यायम् उहेशयितुम्, तेच तस्य वितरेयुः एवं तस्य कल्पते अन्यम् भाचार्योपाध्यायम् उद्देशयितुम्, तेच तस्य नो वितरेयुः पर्व तस्थ नो कल्पते अन्यम् पाचर्योपाध्यायम् उद्देशयितुम् , नो तस्य कल्पते तेषां कारणम् अदीपयित्वा अन्यम् आचार्योपाध्यायम् उद्देशयितुम्, कल्पते तस्य तेषां कारणं दीपयित्वा अन्यम् आचार्योपाध्यायम् उद्देशयतुम् ॥स्०२६॥ चूर्णी-'भिक्खू य' इति । भिक्षुश्च इच्छेत् भन्यम् स्वकीयाचार्योपाध्यायात् परं गन्ठान्तरबत्तिनम् आचार्योपाध्यायं ज्ञानदर्शनचारित्रवृद्धचर्थम् उदेशयितुम् आत्मनो गुरुत्वेन व्यवस्थापयितुं यदि इच्छेत् तदा नो तस्य कल्पते अनापृच्छय अपृष्ट्वा, कम् ! इत्याह-आचार्य यावत् गणाबच्छेदकम् मन्यमाचार्योपाध्यायम् उदेशयितुम् । कथं कल्पते । इत्याह-कल्पते तस्य भाचार्यादिकमापृच्छय अन्यमाचार्योपाध्यायम् उदेशयितुम् । तत्रापि यदि से पाचार्यादयो वितरयुः अन्या. चार्योपाध्यायस्वीकरणाज्ञां दधुः एवं तदाज्ञाप्राप्तो सत्यां तस्य कल्पते भन्यमाचार्योयाच्यायम् उदेशयितम , यदि ते नो वितरेयुः अज्ञां न दधुः तदा नो कल्पते अन्यमाचार्योपाध्यायमुद्देशयितम् । पुनश्चाज्ञाप्राप्तावपि नो तस्य कल्पते कारणम्-मन्याचार्योपाध्यायस्यात्मनो गुरुत्वेन व्यवस्थापने हेतुम् अदीपयित्वा-अप्रकाश्य कारणमनिवेद्य अन्यमाचार्योपाध्यायम् उदेशयितुम् | अपितु कल्पते तस्य भिक्षोः तेषाम् स्वकीयाचार्यादीनां कारणम् अन्याचार्योपाध्यायस्चीकरणे कमपि हेत दीपयित्वा-प्रकटीकृत्य अन्यमाचार्योपाध्यायस्वीकरणे कमपि हेतु प्रदर्य अन्यमाचार्योपाध्यायम उद्देशयितुम् आत्मनो गुरुत्वेन व्यवस्थापयितुं कल्पते इति पूर्वेण सम्बन्धः । अत्राय भावः-स्वकीयमाचार्योपाध्यायं त्यक्त्वा अन्यमाचार्योपाध्यायमुद्दिशेत् तत्र ज्ञानस्य दर्शनस्य चारित्रस्य च प्रधानकारणेन भवितव्यम् , अन्यथा मनोमालिन्यादिक्षुदकारणमाश्रित्य यदि.
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy