SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्पसूत्रे अन्यमाचार्योपाध्यायमुद्दिशेत् तदा आज्ञामङ्गादयो दोषा भवन्ति । तत्र ज्ञाने तावत् केषाञ्चिदाचार्याणां गच्छे कुले संत्रे वा उत्कृष्ट आचारो विद्यते ते चाचार्योपाध्यायाः संघसंस्थितिं कृतवन्तः यत्--'ये अस्माकं शिष्यतयोपगता मवेयुस्तेभ्य एव महाकल्पश्रुतं दास्यामो नान्येभ्यः' इति, तत्रान्यत्र कामसम उत्सर्गतो नोपसंपत्तव्यम्, किन्तु अन्यत्र यदि महाकल्पमुदायको नोपलम्बते, एताद्दश्यां परिस्थितौ उत्कृष्टाचारप्रतिपादक महाकल्प श्रुतग्रहणार्थे तस्याचार्योपाध्यायस्योदेशनमनिवार्य भवेत्ततस्तमाचार्योपाध्यायं स्वगुरुत्वेन व्यवस्थापयेत् । तमाचार्योपाध्यायं गुरुत्वेन उद्दिश्म तत्सकाशात् मद्दाकल्पश्रुतमधीयीत, अधीते च महाकल्पश्रुते पुनः पूर्वाचार्योपाध्याययोरन्तिके समागच्छेत् किन्तु न तत्रैव स्थितिं कुर्यात् । 'स्वशिष्यत्वेनोपगतायैव महाकल्पश्रुतम् अध्यापयि तब्यम् नान्यस्मै' इत्येषा तेषां स्वेच्छावगन्तव्या न तु जिनाशा यत् शिष्यतयोपगतायैव उत्कृष्टाचारप्रतिपादकं महाकल्पश्रुतम् अध्यापनीयमिति । एवं दर्शनार्थ तथा विश्रामन्त्रनिर्मितम् हेतुशास्त्रनिमित्तं वाऽन्यान्वार्योपाध्यायस्यारमनोगुरुत्वेन व्यवस्थापन भवेत् । श्चारित्रार्थं तु उत्कृष्ट - क्रियाशिक्षणनिमित्तं पूर्वोक्तरीत्यैव अन्याचार्योपाध्यायस्वात्मना गुरुत्वेन निर्धारणमवगन्तव्यमिति । १०८ तस्मात् एषु त्रिष्वपि ज्ञानदर्शनात्रेषु उपतनीयेषु नान्ययं गुस्सेन व्यबस्थापयन्तः श्रमणाः पूर्वोक्तरीत्या निर्वेदतस्वप्रयोजनाः आचार्यादिभिर्विसर्जिताः सन्तोऽन्याचायोपाध्याययोर्गुरुत्वेन व्यवस्थापन दोषभाजो न भवेयुः । तत्र गमिष्यमाणे गच्छे यदि अवसन्नतादिकारणं न भवेत्तदा तत्रोपसंपत्तन्यं नान्यथेति फखितम् ॥ सू० २६ ॥ पूर्व भिक्षोर्ज्ञानाद्यर्थमन्याचार्योपाध्यायस्यात्मनो गुरुत्वेन व्यवस्थापने विधिरुक्तः, सम्प्रति गणायच्छेदकस्य विधिमाह- 'गणाषच्छेयए य' इत्यादि । सूत्रम् - गणावच्छेयए य इच्छेज्जा अण्णं आयरिमउवज्झायं उद्दिसाविचर नो से कप्पर गणावच्छेयगतं भणिक्खिवित्ता अणं आयरियउवज्झायं उदिसावित्तए, कप्पर से गणावच्छेयगतं णिक्खिवित्ता अण्णं आयरियउवज्झायं उद्दिसाबितए, नो से कप्पर अणापुच्छित्ता आयरियं वा जाव गणात्रच्छेयगं वा अणं आयरियउयउद्दिसावित्र, कप्पर से आधुच्छित्ता आयरियं वा जाव गणाचच्छेयगं वा अप्पां आयरियउवज्झायं उदिसावित्तए, ते व से वियरेज्जा एवं से कप्पर अण्ण आयरिया उदिसाविश्वप, ते य से नो वियरेज्जा एवं से नो कप्पर अण्णं आयरिया उदिसावित्तए, नो से कप्पड़ तेसिं कारणं मदीविचा अण्णं आयरिया उद्दिसाबितए, कप्पड़ से तेसिं कारणं दीविता अण्णं आयरियउवज्झायं सावित्तर || सू० २७ ॥
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy