SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ १०० बृहत्कल्पसूत्रे योगवैयावृत्त्यसेवाशुश्रूषासूत्रार्थोऽध्ययनाध्यापनादिषु यथायोग्यं बलाबलं विचार्य यथायोगे नियोजयति यः स प्रवर्तकः । स्थविरः- संयमयोगेषु सीदतः साधून् ऐहिकामुष्मिकायायप्रर्दशनपूर्वकं ज्ञानादिषु स्थिरीकरोति यः सगणी पुः स्वत्वानिमन्येन यस्यास्ति स गणी कतिपयसाधुसमुदायेन सह विचरणशीलो यः स गणी | गणवरः यो गणचिन्ताकारकः गणस्य योगक्षेम विधायकः स गणवरः । गणावच्छेदकः --गणस्य साधुसमुदायस्य अवच्छेदं विभागं करोति यः सगणावच्छेदकः । एतान् आचार्यादीन् मनानुष्छ्य गण गणान्तरमुपसंक्रम्य भिक्षोि न कम्पते इति मावः । तहिं कथं कल्पते ! इत्याह-पूर्वोक्तान् आचार्यादीन् आपृष्ठ्य तस्य भिक्षोर्गणान्तरमुपसंपय वित्तु कल्पते । ते च यदि तस्य वितरेयुः गणाद गणान्तरं संक्रमितुमाज्ञां दधुः एवम् अनेन विधिना तस्य भिक्षोः कल्पते अन्य गणं गणाद् गणान्तरम् उपसंक्रम्य विहर्तुम् । यदि ते च तस्य गणान्तरसंक्रमणेच्छुकस्य नो वितरेयुः प्राज्ञां न दद्युः एवम् अनेन प्रकारेण आज्ञामन्तरेण नो कल्पते तस्य भिचोरन्यं गणमुपसंपथ विहर्तुमिति । एवं भिक्षुविषय आलापो निर्मन्ध्या अपि गणान्तरगमनविषयेऽवगन्तव्यः किन्तु युतदपेक्षया विशेषस्तुनिर्मन्धी नियमत एव स सहाया गणान्तरं गच्छति न तु कथमपि असहाया एकाकिनीति | सू० २० ॥ पूर्वसूत्रे सामान्यभ्रमणस्य गणान्तरसंक्रमणविधिरुक्तः, एष एव गणावच्छेदकाचार्योपान्यायानामपि विधिर्मवतीति माध्यकारोऽतिदिशति – 'जह भिक्खुस्त' इत्यादि । भाष्यम् - जन भिक्खुस्स य कहिओ, गणावछेप तहेव आयरिए । एसेव उवझाए, विही य ते हुंति पता उ ॥ १ ॥ छाया—यथा भिक्षोश्च कथितः गणावच्छेदे तथैव माचायें । प प उपाध्याये विधि ते भवन्ति व्यक्तास्तु ॥ १ ॥ अत्रचूरी - 'जद्द भिक्खुस्स' इति यथा येन प्रकारेण भिक्षोश्च सामान्यश्रमणस्य गणान्तरसंक्रमणविषये सूत्रे विधिः कथितः सचैव तेनैव प्रकारेण गणावच्छेदे - गणावच्छेदविषये, आचार्य - आचार्यविषये, उपाध्याये उपाध्यायविषये एष एव विधिः पृष्छादिरूपो विज्ञेयः, नवरं नानात्वं केवलमेतावदेव यत्- भिक्षोः केवलं पृच्छापूर्वकं गमनं प्रतिपादितम् गणावच्छेदकादीनां तु स्वपदव्यागपुरस्सरमाचार्यादिकं दृष्ट्वा गन्तव्यम्, यत एते गणावच्छेदकादयो नियमात् 'क्ता द' इति व्यक्ता वयसा श्रुतेन च व्यक्ता एव भवन्ति नाव्यक्ताः ततो योऽव्यक्तस्य विधिरुक्तः सोऽत्र न भवतीति भावः ॥ १ ॥ पूर्व सामान्यभ्रमणस्य ज्ञानार्थं गणान्तरगमनविधिः प्रतिपादितः सम्प्रति विशेषमाश्रित्य गणावच्छेदकाचा गोपाध्यायानां गणान्तरगमनविधि सूत्रकारः साक्षात् प्रतिपादयन् प्रथमं गणावच्छेदकस्य विधिमाह – 'गणात्रच्छेगए य' इत्यादि ।
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy