SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ mar.. ..AANA-M AA nmmmuIRAMMAR लेख्य तं भूप्रदेश चक्षुषा सम्यङ् निरीक्य प्रमृज्य रजोहरणेन सम्यक्तया तत्स्थानस्य प्रमार्जन कृत्वा परिष्वापयितव्यम् ॥ सू. १८॥ पूर्वसूत्रेऽनामोगेन गृहीतमचित्तमनेषणीयं पानभोजनमनवस्थापितकाय प्रदातव्यं, न स्वयं भोक्तव्यं नान्येभ्यः प्रदातव्यमिति प्रतिपादितम्, सम्प्रति "किमर्थमनेषणीयमिदं पानभोजनं मा दीयते' इत्येवं कलुषितपरिणामस्य शैक्षस्य प्रज्ञापनार्थमिदं सूत्रं प्रारभ्यते, अथवा 'कथं तावत् शैक्षस्यानेषणीयं पानभोजनं कल्पते ! इति शक्कायां तत्समाधाननिमित्तमिदं मूत्र प्रारभ्यते'जे कडे' इत्यादि । सूत्रम्-जे फडे कप्पट्ठियाणं कप्पड़ से अकप्पट्ठियाणं, नो से कप्पइ कप्पद्वियाणं, जे कडे अप्पवियाणं णो से कप्पइ कप्पटियाणं कप्पइ से अकप्पष्टियाणं कप्पे ठिया कप्पटिया, अकप्पे ठिया अकापट्ठिया ॥ सू० १९॥ ___ छाया- यत् कृतं कस्पस्थितानां कल्पते तत् अकरपस्थितानाम् नो तन कल्पते कल्पस्थितानाम्, यत् कृतम् अकरपस्थितानां नो तत् कल्पते कल्पस्थितानाम्, कल्पते सद अकल्पस्थितानाम्, कल्पे स्थिता कल्पस्थिताः प्रकल्प स्थिता अकल्पस्थिताः ॥ सू. १९ ॥ चूर्णी-'जे कडे' इति । यद् भक्तपानादिक कृतं प्राधाकर्मत्वेन निष्पन्न कल्पस्थितानाम् आचेलक्यादिदशविधस्थितकल्पे स्थितानाम् । कल्पो द्विविधः स्थितकल्पः अस्थितकल्पश्च । तत्र आचेलस्यादिदशविधः स्थितकल्पः, असौ आदिमान्तिमतीर्थकरयोः साधूनां पञ्चयामधर्मप्रतिपन्नानां भवति ततस्ते कन्परियताः कथ्यन्ते, दशविधकल्पो यथा--भाचेलक्यम् १ कृतिफर्म २, महावतम् ३, पर्यायज्येष्टन्दम् ४, प्रतिक्रमणम् ५, मासनिवासः ६, पर्युषणा ७, मौदेशिकम् ८, शय्यातरपिण्डः ९, राजपिण्ड: १० । एतेषु दशस कल्पेषु आदितः सप्तविध कल्पाः प्राधा इत्यर्थः, औद्देशिकादिकालयो निषेधकल्पाः अनाया इत्यर्थः, गपु कल्पेषु स्थिताः कल्पस्थिताः, तेषां कृते यद् भक्तपानादिकं निष्पन्नं तद् भक्तपानादिकं कल्पते अकल्पस्थितानाम्आचेलयादिसम्पूर्णदशविश्वकल्पहितानाम् मध्यमद्वाविंशतितीर्थकरसाधूनां चातुर्यामधर्मप्रतिपन्नानां कल्पते इति पूर्वेण सम्बन्धः, किन्तु 'नो से' इति तद भक्तपानादिकं कल्पस्थिताना आदिमान्तिमतीर्थकर साधूनां पञ्चयामधर्मप्रतिपन्नानां नो कापते, कल्पस्थितानुदिश्य निष्पादित भरतपानादिकमकल्पस्थितानां कल्पते किन्तु कल्पस्थितानां तत् नो कल्पते इत्याशयः । अथ च 'जे कडे' इति । यद् भक्तपानादिकम् अकल्पस्थितानां कृते कृतं निष्पादितं भवेत् तद् नो फलपते कल्पस्थितानाम् किन्तु तद् अकल्पस्थितानां कल्पते । यत् चातुर्यामधर्मप्रतिपन्नानुदिश्य संपादित भक्तपानादिकं एचयामधर्मप्रतिपन्नानां नो कल्पते तत्तु चातुर्यामधर्मप्रतिपन्नानामेव कल्पते इति भावः । कथं कल्पस्थिता अकल्पस्थिता इति कथ्यन्ते ! तत्राद्द -'कप्पे ठिया' इत्यादि, ये कल्पे
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy